________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
घाटीभटेषु तत्रत्य मोषं मोषं गतेष्वथ । दावानल: प्रजज्वाल कल्पान्ताग्निरिवोच्छिखः ।।४।। अथ दावोन्मुखो धावन्नन्धः प्रौच्यत पङ्गुना । जिजीविषुर्मुमूर्षुर्वा किं दावमभियासि भोः ।।५।। सोऽवदत्तातो भद्र ! व याम्याख्याहि जीवितम् । आकर्षय मुखान्मृत्योः प्राणदानं ह्यनुत्तरम् ।।६।।
आ. नि. ततस्तं पङ्गुरूचेऽन्धमेहि स्कन्धे निधेहि माम् । येन मदृष्टमार्गे स्यान्निरपाया भवद्गतिः ।।७।।
सामायिकअन्धोऽपि युक्तं पङ्गुक्तं मन्यमानः सपद्यपि । तथैव विदधाति स्म प्राणभीमहती हि भीः ।।८।।
नियुक्तिः ततः समेतौ तौ स्थानं जग्मतुभवपीप्सितम् । एवं दर्शनचारित्रे अपि युक्ते शिवप्रदे ।।९।। ।।१०२।।
समुदितज्ञानते च ज्ञानक्रिये भिन्नस्वभावतयैवोपकुर्वते, नैकस्वभावतयेत्याह -
क्रियाफले नाणं पयासयं सोहओ तवो संजमो य गुत्तिकरो । तिन्हंपि समाजोगे मुक्खो जिणसासणे भणिओ ।।१०३।।। उदाहरणम् । ज्ञानं प्रकाशकम्, प्राग्भवोपात्तकर्मशोधकमपसारकं तपः, संयमो नवकर्मप्रवेशगुप्तिकरः । शेषं स्पष्टम् ॥१०३।। मोक्षश्च * गाथाक्षायिकज्ञानाद्यवाप्तौ स्यात्, श्रुतज्ञानं तु क्षायोपशमिके भावे इत्याह -
१०३-१०४ भावे खओवसमिए दुवालसंगपि होइ सुअनाणं । केवलियनाणलंभो नन्नत्थ खए कसायाणं ।।१०४।।