SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः * ५० 準準準準準準準準準準 ततोऽनश्यजन: सर्वः कुर्वन् हाहारवं जवात् । कष्टेन महता तस्मात्प्राणमात्रधनस्तथा ।।२।। अन्धपङ्ग नरौ द्वौ च तत्रानाथौ बभूवतुः । बहिर्नीतौ न तौ केनाऽप्यात्मना गन्तुमक्षमो ।।३।। पश्यन्नपि तत: पयर्मार्ग निर्गन्तुमात्मना । गमनक्रियया शून्यो भस्मीभावमवाप्तवान् ।।४।। अन्धस्तु धावमानोऽपि त्रातुं प्राणानितस्ततः । अपश्यन्ननलस्यैव प्रविवेशास्य कोटरे ।।५।। आ. नि. अन्धपङ्ग तदेवं तो मृतौ द्वावप्यसङ्गतौ । एवं दर्शनचारित्रे अप्यसक्ते न सिद्धिदे ।।६।। ।।१०१।। सामायिकसमुदिते ज्ञानक्रिये पुनः फलायेत्याह - संजोगसिद्धिइ फलं वयंति नहु एगचक्केण रहो पयाइ । अंधोय पङ्गय वणे समिया ते संपउत्ता नगरं पविट्ठा ।।१०२।। * ज्ञानमाहात्म्ये स्पष्टा । नवरं समेत्येत्युक्ते तौ संप्रयुक्ताविति पुनरभिधानं ज्ञानक्रिययोरात्यन्तिकसंयोगदर्शनार्थम् । अत्रोदाहरणं - उदाहरणम् । कुतोऽपि नगराल्लोको विपक्षातङ्कशङ्कया । अरण्यं शरणीचक्रे किञ्चिद्वैरिदुरासदम् ।।१।। गाथा-१०२ अपरेधुः पुनस्तत्राऽप्यवस्कन्दभयातुरः । आत्तप्राण: पलायिष्ट विमुच्य शकटादिकम् ।।२।। तत्राभूतां पुमांसी द्वावन्धपङ्गु निराश्रयौ । तथैव तस्थतुस्तौ च नि:स्वत्वादकुतोभयौ ।।३।। नियुक्तिः ********** 举華華華準準準羊準準準準準準
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy