________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
संसारसागरादुन्मग्नः, गिरिसरिदुपलघोलनान्यायेन, कथञ्चिदवाप्तमनुष्यभवो मा पुनर्निमज्जेत्, आह - उन्मग्नोऽपि निमज्जति ? उच्यते, * चरणगुणविप्रहीण: सुबह्वपि जानन् संसाराब्धौ पुनर्निमज्जति । अत्र दृष्टान्तः - लक्षयोजनमानोऽस्ति क्वापि द्वीपे महाहूदः । सहस्रयोजनप्राप्याधस्तलो वर्तुलाकृतिः ।।१।। यो व्यावृत्योर्द्धसंश्लिष्टशैवालपटलाष्टकः । वरुणाम्भोनिधिरिवोत्तानपट्टावृतो बभो ।।२।। पुत्रपौत्रादिसन्तत्या तत्रैक: कच्छपो महान् । मूलशाखाप्रशाखाद्यैर्वृद्धिं न्यग्रोधवद् ययौ ।।३।। अथान्यदाश्विने मासे वात्यया पुटभेदतः । राकानिशार्धे शैवालविचाले विवरोऽभवत् ।।४।। स च कूर्मस्तदा तत्र दैवादागाजलोपरि । ददर्श चन्द्रं छिद्रेणाऽदृष्टपूर्व नभस्तले ।।५।। सन्ततिं मेलयित्वा स्वां दर्शयाम्येतदद्भुतम् । विमृश्येति निमज़्यान्तः सकलां ताममेलयत् ।।६।। सकुलोऽप्यागमद्भूयस्तं द्रष्टुं तत्र कच्छपः । कपाटसन्धिवद्वातान्मिलितं विवरं च तत् ।।७।। तत् किं स्याद्विवरं भूयः स्याद्वा काल: स किं भवेत् । कुतस्तदर्शनं तस्य भवेत्किन्तु पुनर्बुडेत् ।।८।।
अयमत्रोपनय: - महाह्रदोऽत्र संसारः शैवाल: कर्मसञ्चयः । संसारिजीव: कूर्मश्च वात्या तु भवितव्यता ।।९।। *१. मिलितो विवरः स तु प, ल, ल छ । २. स किं स्याद्विवरो प, ल छ । . ऊर्द्धम् - उपरि ।
आ. नि. सामायिकनियुक्तिः चरणगुणप्राधान्ये दृष्टान्तः। गाथा-९७ ४८