________________
आवश्यक- नियुक्तिः श्रीतिलका- चायलघुवृत्तिः
गृहीत्वा लोकोपभोगाद्यर्थं मुकुटमाल्यादिरूपेण ग्रनन्ति । एवं तपोनियमज्ञानरूपं वृक्षमारूढकेवली अमितज्ञानी ततो वृक्षात् ज्ञानवृष्टिं ज्ञानकारणभूतशब्दवृष्टिं मुञ्चति भव्यजनविबोधनार्थम् । तां शब्दवृष्टिं बुद्धिमयेन पटेन गणधरा गृहीत्वा निरवशेषां सम्पूर्णाम्, ततस्तानि शब्दरूपाणि तीर्थंकरभाषितानि, 'प्रवचनार्थं' - प्रवक्तीति प्रवचनं सङ्घस्तदर्थं ग्रन्थन्ति ग्रन्थरूपाणि कुर्वन्ति ॥८९-९०॥ शब्दकुसुमवृष्टिग्रथने कारणान्तरमाह - चित्तुं च सुहं सुहगणणधारणा दाउ पुच्छिउं चेव । एएहिं कारणेहिं जीयंति कयं गणाहरेहिं ।।११।।
आ.नि.
सामायिक* अर्हद्वचनवृन्दं कुसुमसङ्घातवत् ग्रथितं सत् ग्रहीतुं सुखं भवति-सुग्राह्यं स्यात्, सुखगणना-सुखेन सङ्ख्यानम्, धारणा-अविस्मृतिः, दातुं *
नियुक्तिः । *शिष्यानध्यापयितुम्, प्रष्टुं-सन्देहे सति प्रश्नयितुम् । एतैः कारणैर्जीतमिति कल्पोऽयमिति कृतं ग्रथितं गणधरैः ।।११।। तीर्थङ्करभाषितमेव *
गाथा-९१-९२ * किं सूत्रं न भवतीत्याह -
अत्थं भासइ अरिहा सुत्तं गंथंति गणहरा निउणं । सासणस्स हियट्ठाए तओ तित्थं पवत्तई ।।१२।। स्पष्टा । नवरं निपुणं बह्वर्थं निष्णातमतिगम्यम् ।।१२।। तच्च सूत्रं किमादि किमन्तमित्याह -
藥華藥