SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलका चार्यलघुवृत्तिः ४५ ****** श्री वीरपद्महस्तेन प्रवव्राज मृगावती । अष्टावङ्गारवत्याद्याः प्रद्योतस्य च वल्लभाः ।। ५७।। इति द्रव्यपरम्पराकथा ।।८७ ।। निर्युक्तिशब्दार्थमाह - निज्जुत्ता ते अत्था जं बद्धा तेण होइ निज्ज़ुत्ती । तहवि हु इच्छावेई भासिउं सुत्तपरिवाडी ।।८८ ।। `निर्नययुक्ता निर्युक्ता निश्चितास्तेऽर्थाः, सूत्रोक्ताः जीवाजीवादयः पदार्थाः । यद्यस्माद् ‘बद्धा' गाथात्वेन ग्रथिताः सम्यगवस्थापितास्तेन भवति नियुक्तिः । कोऽर्थः ? निर्युक्तानामर्थानां सूत्रे बद्धानां सूत्राद्विरलीकृत्य या व्याख्या सा निर्युक्तिः, भद्रबाहुस्वामिरचितशास्त्ररूपा । आह - यदि सूत्र एव निर्युक्ताः अर्था बद्धाः सन्ति तत्किमनया ? उच्यते, 'तथापि च' एवं सत्यपि सूत्रपरिपाटिरेव भाषितुमर्थान् प्रकाशयितुं निर्युक्तिमेषयति निर्युक्तेरर्थप्रकाशनेच्छां करोतीत्यर्थः ।। ८८ ।। भद्रबाहुः प्रागुक्तनिर्युक्त्त्यर्थानां तीर्थकृद्गणभृतां सम्पदतिशयमाह - तवनियमनाणरुक्खं आरूढो केवली अमियनाणी । तो मुयइ नाणवुट्ठि भविजणविबोहणट्ठाए ।।८९ ।। बुद्धिम पडे गणहरा गिन्हिउं निरवसेसं । तित्थयरभासियाई गंथंति तउ पवयणट्ठा ।। ९० ।। यथा वृक्षमारूढः पुरुषस्ततो वृक्षादधः स्थानां मालिकानां निमित्तं कुसुमवृष्टि मुञ्चति तेऽपि तेषां रजोगुण्डनभयात्पटं विस्तार्य १ निर्नियमेन युक्ता निर्युक्ता ल । * आ. नि. सामायिक निर्युक्तिः । गाथा - ८८-९० ४५
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy