SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ * आवश्यक- ते वंदिऊण सिरसा अत्थपुहुत्तस्स तेहिं कहियस्स । सुयनाणस्स भगवओ नितिं कित्तइस्सामि ।।८।। नियुक्तिः * स्पष्टा । 'अत्थपुहुत्तस्स', अर्थस्य पृथुत्वं बाहुल्यं यस्य श्रुतस्य तदर्थपृथुत्वम् । तस्यार्थपृथुत्वस्य श्रुतज्ञानस्य भगवतो 'निज्जुत्ति' सूत्रार्थयोः श्रीतिलका परस्परं निर्योजनं नियुक्तिस्तम् ।।८३।। केषां केषां नियुक्तिमित्याह - चार्यलघुवृत्तिः आवस्सगस्स दसकालियस्स तह उत्तरज्झमायारे । सूयगडे निजत्तिं वुच्छामि तहा दसाणं च ।।८४।। कप्पस्स य निजत्तिं ववहारस्सेव परमनिउणस्स । सूरियपनत्तीए वुच्छं इसिभासियाणं च ।।८५।। एएसिं निजुत्तिं वुच्छामि अहं जिणोवएसेणं । आहरणहेउकारणपयनिवहमिणं समासेणं ।।८६।। स्पष्टा । केवलं 'परमनिउणस्स' परमनिपुणेन अत्यन्तं निष्णातेन गम्यमानत्वात्, ग्रन्थोऽपि परमनिपुणस्तस्य, 'इसिभासियाणं' * देवेन्द्रस्तवादीनाम् । 'आहरणहेउकारणपयनिवहं' साध्यसाधनान्वयव्यतिरेकदर्शनमाहरणं दृष्टान्तः, साध्यधर्मान्वयव्यतिरेकरूपो हेतुः *कारणमुपपत्तिमात्रम्, तेषां पदनिवहस्तम् ।।८४-८५-८६।। प्रथमं सामायिकनियुक्तिमाह - सामाइयनिज्जुत्तिं वुच्छं उवएसियं गुरुजणेणं । आयरियपरंपरएण आगयं आणुपुवीए ।।८७।। सामायिकनियुक्तिं आनुपुर्व्या परिपाट्या सुधर्मास्वामिनः सकाशाज्जम्बुस्वामिना ततः प्रभवेन ततोऽपि शय्यम्भवादिभिः, आगम्यते । आ. नि. सामायिकनियुक्तिः । गाथा८३-८७ * * *
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy