SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ **** आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ४७४ ततः श्रेष्ठी तमाहेवं दीक्षस्वाऽमुं सुतं मम । नीतस्तेन गुरूपान्ते गुरुभिः सोऽथ दीक्षितः ।१६ । समागत्य ततः सद्यः पार्श्वे तस्यैव सद्गुरोः । ज्यायानपि प्रवव्राज भ्रातृस्नेहानुरागतः ।१७। जातौ साधू ततस्तौ द्वो तपोनिष्ठो क्रियापरौ । क्रशयन्तौ भवं स्वं च व्यहषातामनिश्रया ।१८। इतस्तपःप्रभावेन भूयासं भावि जन्मनि । जगदानन्दन इति निदानं विदधे लघुः ।१९। गत्वाऽथ त्रिदिवं पश्चात्रिदानी वसुदेवसूः । नवमो वासुदेवोऽभूदलदेवोऽपरः पुनः ।२०। अथोत्सवे आभीराणि - प्रान्तग्रामेऽन्यदैकस्मिन्नाऽऽगच्छन्ति स्म साधवः । तत्राभीराणि तत्पार्श्वे धर्म शृण्वन्ति नित्यशः ।। व्यावर्णयन्ति ते देवलोकं तस्य च वैभवम् । प्राप्यते स च धर्मेण तत्र तेषां ततोऽस्ति धीः ।२। इन्द्रोत्सवादावन्येद्युस्तान्याभीराणि कार्यतः । द्वारिकाद्यनुरूपायां नगर्या कुत्रचिद्ययुः ।। विचित्रवस्त्रालङ्कारं कस्तूर्यादिप्रसाधितम् । तत्रैक्षन्त जनं तानि लोचनैविस्मयस्मितैः ।।। परस्परमथाख्यान्ति तद्दर्शनभुवा मुदा । देवलोकः स एवाऽयं साधवो वर्णयन्ति यम् ।५। अथाऽऽगतानि तान्याख्यन् साधूनां योऽत्र वर्णितः । युष्माभिर्देवलोकः स प्रत्यक्षोऽस्माभिरीक्षितः ।। • अनिश्रया - निश्रा-रागः न निश्रा इति अनिश्रा, तया । 準準準準準準準準準準 आ. नि. सा.नि. 'कथम्' द्वारम् सामायिकलाभे कथाः उत्सवे आभीराणि । गाथा-८४७ ४७४ *****
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy