________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः
४७०
*****
***********
स्वाम्युक्तानन्यदा श्रुत्वाऽसङ्ख्यान् द्वीपोदधीन् जनात् । जातशङ्कस्य तस्याऽथ विभङ्गं सर्वथाऽगमत् ।९ । ततः श्रीवीरपार्श्वेऽगाद्धर्मं श्रुत्वाऽग्रहीद्व्रतम् । श्रुतं पठन् विशुद्धात्मा सद्ध्यानात् प्राप केवलम् ॥१०॥ अथ संयोगवियोगे माथुरौ वणिजौ -
मथुरैका दक्षिणस्यामुत्तरस्यां द्वितीयका । सौधर्मेशानवत्ते द्वे दिग्द्वयस्य विभूषिके । १ । दक्षिणमथुरापुर्यामेकदा वणिगोत्तरः । ययौ सार्थेन महता व्यवहर्तुं महाधनः । २ । दाक्षिणात्यो वणिक् तस्य धनदप्रतिमर्द्धिकः । आतिथेयं महझक्रे क्रमान्मैत्री तयोरभूत् ॥ ३ ॥ ताभ्यामजातापत्याभ्यां मैत्रीस्थैर्यकृते ततः । अन्योन्यसन्ततौ कार्यो विवाह इति निश्चितम् ॥४ ॥ दाक्षिणात्यस्य पुत्रोऽभूदौत्तरस्य च पुत्रिका । द्वयोरप्यभवत्प्रीतिः प्रतिज्ञापूर्तिसम्भवात् ॥ ५ ॥ विवाहकाले सञ्जाते दाक्षिणात्यो वणिग्मृतः । तस्य स्थाने तत्तनूजश्च क्षडःख्याडिवाऽभवत् । ६ । स्नातुं तस्याऽन्यदा न्यस्ताः स्वर्णकुम्भाश्चतुर्दिशम् । ततः परं रूप्यमया मृन्मयास्तदनन्तरम् ॥७। कृते कार्ये विमुक्ताश्च सर्वेऽप्युड्डीय ते ययुः । स्नातोत्थितस्य तस्याऽगात्स्नानपीठमपि क्वचित् ॥८॥ १. क्षडः ख्याजिवाभवत् प, । क्षिडःखात्रिवाभवत् प, । क्षडः ख्यानिवाभवत् ल । क्षिडः ख्याडिवाल, ।
*******
आ. नि.
सा. नि.
'कथम्' द्वारम्
सामायिकलाभे
कथाः संयोगवियोगे वणिजौ ।
गाथा - ८४७
४७०