________________
आवश्यक
निर्युक्तिः
श्रीतिलकाचार्यलघुवृत्तिः
४६९
*****
तच्छ्रुत्वा भगवद्वाक्यं सम्बुद्धो व्रतमग्रहीत् । एवं वैनयिकात्तस्याऽभवत्सामायिकव्रतम् ॥१० ॥ अथ विभङ्गे शिवकथा -
मगधेषु शिवो राजा बभूवाऽक्षुद्रमानसः । धनधान्यहिरण्यं च प्रत्यहं तस्य वर्धते ।१ ।
चित्तेऽभूत्तत इदं विद्यते कर्मणः फलम् । कुतोऽन्यथा धनादेर्मे वृद्धिः पुण्यं करोमि तत् ॥ २ ॥ भोजयित्वाऽथ सज्ञातीन्पौरान्जानपदांश्च सः । दीनानाथादिलोकानां दत्वा दानं यथोचितम् ॥३॥ पुत्रं राज्ये च संस्थाप्य क्षमयित्वाऽखिलं जनम् । कारयित्वा च भिक्षार्थं 'ताम्रपात्रकटुत्सुके ॥४॥ दिक्प्रोक्षिततापसानां मध्येऽभूत्तापसस्ततः । स्वयं पतितपत्राणि बुभुजे स द्व्यहात्त्र्यहात् ॥५॥ एवं कष्टक्रियां कुर्वन् विभङ्गज्ञानमासदत् । अपश्यत्तेन सप्तैव द्वीपानम्भोनिधींश्च सः ॥६ ।
यथा दृष्टांश्च भावान्स गत्वा प्राज्ञापयत् पुरे । राजर्षिरिति लोकोऽपि मेने तद्बहुमानतः ॥७॥ "ततः प्रभृति सञ्जातः प्रवादोऽयं जगत्यपि । सप्तद्वीपाः समुद्राश्च सन्त्यन्यन्नास्त्यतः परम् ॥८ ॥
१. 'कटुच्छुके' ख । कडुच्छुकं प छ । ताम्रपात्रं कुटुम्बकैः ल । ताम्रपात्रंकुटुम्बकः ल । २. 'दिक्प्रोषित' ल । ३. इतः प्रभृति, अयं पाठान्तरः अन्यदा साधवो दृष्टा महात्मानो महाक्रियाः । तेषां क्रियाफलं ज्ञातुं विभङ्गेन व्यचिन्तयत् ॥८॥ तज्ज्ञानध्यानतश्चाभूत्परिणामोऽतिशुद्धिमान् । तदैवाऽपूर्वकरणात्केवलज्ञानमाप सः । ९ । प प प,
ख ल छ ।
*****
आ. नि.
सा. नि.
'कथम्'
द्वारम्
सामायिकलाभे विभङ्गे शिवराजा ।
गाथा - ८४७
४६९