SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलका चार्यलघुवृत्तिः ४६८ *************** अन्यदा समवासार्षीत् श्रीवीरस्तत्र तीर्थकृत् । कृतपुण्यो नमस्कृत्य स्वामिनं पृष्टवान् सुधीः । ६० । सम्पत्तिश्च विपत्तिश्च कथमासीन्मम प्रभो ! स्वाम्यूचे हन्त ते जज्ञे लक्ष्मीः पायसदानतः । ६१ । रेखाद्वयविधानाच्च बभूवान्तरिकाद्वयम् । तच्छ्रुत्वा तत्क्षणात्सर्वसामायिकमुपाददे । ६२ । अथ विनये पुष्पशालसुतकथा - मागधे गोबरग्रामे पुष्पशाल: कुटुम्बिकः । भद्राभार्या च तस्यासीत्पुष्पशालस्तु तत्सुतः ॥ १ । स मातापितरावूचे को धर्मस्तावथोचतुः । विनयाद्वत्स ! शुश्रूषा मातापित्रोर्विधीयते ॥ २ ॥ द्वे एव देव बत माता च पिता च जीवलोकेऽस्मिन् । तत्रापि पिताऽभ्यधिको यस्य वशे वर्त्तते माता | ३ | पादशौचादिशुश्रूषां स चक्रेऽथ सदा तयोः । ग्रामाधिपोऽन्यदाऽऽयातः स ताभ्यामप्यपूज्यत ॥४। सोऽथ दध्यावसौ तावन् मत्पित्रोरपि दैवतम् । तच्छुश्रूषामथाऽकार्षीद्भावी धर्मो महानितः ॥ ५ । तस्याप्यन्योऽन्यदाऽधीशः प्राप्तस्तं सोऽप्यपूजयत् । अस्याप्यसौ पूज्य इति मुक्त्वैतमहमप्यमुम् ॥६। सेवेऽथ तस्य सेवायां प्रवृत्तो धर्मकामुकः । उपर्युपरिसेवार्थी श्रेणिकं सेवते स्म सः ॥७॥ श्रेणिकोऽपि नमन् दृष्टः श्रीवीरं सोऽथ दध्यिवान् । सेवेऽहमप्यमुं तस्मात्पूजितैरपि पूजितम् ॥८॥ अथोचे भगवन्तं स प्रभो ! सेवां करोमि वः । स्वाम्यूचे साधुवेषेण सेवाऽस्माकं विधीयते । ९ । ****************** *********** आ. नि. सा. नि. 'कथम्' द्वारम् सामायिकलाभे कथाः विनये पुष्पशालसुतः । गाथा-८४७ ४६८
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy