________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
४६६
द्वादशाब्दया स एवाऽऽगात्सार्थस्तत्रैव चाऽवसत् । ऊचे स्नुषाः पुनः श्वश्रूत्वाऽसौ तत्र मुच्यताम् ।३७। ऊचिरेऽथ स्नुषा नैतद्युज्यते श्वश्रु ! साऽवदत् । यूयं जाताः स्थ पुत्रिण्य: कार्यं किमधुनाऽमुना ।३८ । अकृत्यमपि कार्यात् किं कृत्वा पश्चान मुच्यते । अभक्ष्यं भुक्तमत्यार्त्या तत्किं भक्ष्यं सदैव तत् ॥३९॥ दुग्धभ्रान्त्या चन्द्रकान्तां पाययित्वा स शायितः । तत्कान्ताभिः शम्बलार्थं मोदका रत्नगर्भिताः ।४०। तस्याऽक्रियन्त स्नेहेन मुक्ता उच्छीर्षके च ते । अथोत्पाट्य यथानीतो मुक्तस्तत्र तथैव सः ॥४१॥ प्रबुद्धोऽचिन्तयद्यावत्ततः कथमिहागमम् । तावत्तत्राऽऽगते पल्यौ तथैव तमपश्यताम् ।४२। ताभ्यामूचेऽथ किं नाथ ! व्योम्नाकार्षीर्गतागतम् । मार्गच्छाया न काप्यत्र दृश्यतेऽङ्गेषु येन वः ।।३। ददो शून्यान् स हुंकारान् घृष्टोऽहमिति चिन्तयन् । अथोत्थाय ययौ गेहं प्रियात्ततल्पशम्बलः ।४४। आययो लेखशालायाः पितरि नाति चात्मजः । तस्यादाद्रुदतो वेश्या शम्बलान्मोदकं करे ।४५। सोऽनन् ययौ बहिस्तात् तं तत्र रत्नं विलोक्य च । आर्पयत् कान्दविकस्य प्रत्यहं मण्डकाप्तये ।४६। जलान्तः क्षेपणाज्जातं जलकान्तं च तेन तत् । भुञ्जाना मोदके भग्ने दृष्ट्वा रत्नं प्रियाऽवदत् ।४७।
आ. नि. सा.नि. 'कथम्'
द्वारम् * सामायिकलाभे
कथाः दाने कृतपुण्यः । गाथा-८४७
४६६
R
• मोदका इत्यर्थः ।
***