________________
आवश्यक
निर्युक्तिः
श्रीतिलका
चार्यलघुवृत्तिः
४६५
****************
सार्थेऽथ प्रस्थितेऽचालीन्मुक्त्वा तत्कृते धनम् । कृतपुण्यः पुण्यधनो धनोपार्जनहेतवे ॥ २५ ॥ उपदेवकुलं सार्थमध्ये पल्यङ्कगं निशि । प्रियं विमुच्य भार्ये ते वपुषैव गृहं गते । २६ । श्रेष्ठिन्या चैकया तत्र भिन्नः पोतः सुतो मृतः । श्रुत्वेत्यचिन्त्यपुत्रत्वान्मा गाद्राजकुले धनम् ॥२७॥ नाऽरोदयन वाऽरोदीत्तां वार्तामप्यहारयत् । वार्ताकृतो धनं दत्वा सोचे माऽऽख्य इदं क्वचित् ॥ २८ ॥ चतस्रोऽपि स्नुषाश्चोक्ताः कश्चिदानीयते पुमान् । स्युर्युष्माकं यथा पुत्रा गृहसर्वस्वरक्षकाः । २९ । ऊचुस्ताः किमिदं श्वश्रु ! युज्यते सा जगाद ताः । अकार्यमपि कार्येण क्रियते नास्ति दूषणम् ॥३०॥ साऽथागात् सस्नुषा सार्थे कृतपुण्यं विलोक्य तम् । सर्वाः सतल्पमुत्पाट्य सुप्तं स्वगृहमानयन् ॥३१ । वृद्धा जागरिते तस्मिन्नभ्यधात्कपटे पटुः । कुलदेवतयाऽऽनीतो वत्स ! त्वमसि मे सुतः ॥ ३२ ॥ एताश्चतस्रस्ते कान्ताः कान्त्याऽपास्तसुराङ्गनाः । सौघं जितविमानश्रि भुङ्क्ष्व भोगान् यथासुखम् ।३३। कृतपुण्योऽखिलं वीक्ष्य वृद्धोक्तं दध्यिवानिति । किमेतत्कुलचिन्ताद्येर्भजे भोगानुपस्थितान् ॥३४ । तत्र द्वादशभिर्वर्षेः क्रीडन् स्वे वेश्मनीव सः । सर्वासामपि पत्नीनां पुत्रान् द्वित्रानजीजनत् ॥ ३५ ॥ इतस्तत्परिणीतायागुर्व्याः पत्न्याः सुतोऽभवत् । सोऽप्येकादशवर्षोऽस्ति पठन् पण्डितसन्निधौ । ३६ ।
****************************
आ. नि. सा. नि.
'कथम्' द्वारम्
सामायिकलाभे
कथाः दाने
कृतपुण्यः । गाथा - ८४७ ४६५