________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ४६४
तैः प्रावेशि स वेश्यौकस्तत्राऽस्थाद् द्वादशाब्दिकम् । पिता मृतोऽपि नाऽज्ञापि मात्रा माऽभूत्सुतोऽसुखी ।१३। वित्तमाऽऽनायितं नित्यं प्रेषयत्पुत्रवत्सला । मृत्यौ तस्याः स्नुषाप्येवं स्वप्रियप्रीतये व्यधात् ।१४।। निष्ठितेऽथ धने कृत्स्ने चेटीहस्ते तदङ्गना । निजमाभरणं प्रेषीद्विवेदाऽक्काऽथ निःस्वताम् ।१५। [युग्मम् सदीनारसहस्रं तत्तस्याः प्रत्यर्पितं तया । अथाऽक्कया सुताऽभाणि निःस्वो निःसार्यतामयम् ।१६ । सा नैच्छदथ वञ्चित्वा गृहमार्जनदम्भतः । उत्तारितोऽप्यस्तिष्ठत्रूचे दास्या स्थितोऽसि किम् ।१७। अशृङ्गपशुरेवाऽसि निरस्तोऽपि न यासि यत् । सोऽथ दध्यो क्षयायोक्ता धिग् वेश्या वञ्चितोऽस्म्यहम् ॥१८॥ गृहवाऽविदन् पृच्छत्रूचे तैः क्वास्ति तद्गृहम् । वेश्याऽऽसक्तस्तत्सुतोऽभूत्ततः सर्वं क्षयं गतम् ॥१९॥ ततः कथञ्चिद् ज्ञात्वागाजीर्ण शीर्णे गृहे निजे । भार्या च सहसोत्थाय कुलीना विनयं व्यधात् ।२०। लज्जितो विनयात्तस्या मातापित्रोश्च शोकतः । सर्वस्वहरणाचाऽभूदुःखरत्नत्रयाधिपः ।२१। तदेकजीविता सापि गणिकाऽऽगात्तदन्तिके । तं शोकदुःखचिन्ताऽत प्रिया प्राणेशमब्रवीत् ।२२। अक्का टङ्कसहस्रं तन्निजान्याभरणानि च । पुरो विमुच्य हे भर्तनींवीयं तत्पणाय्यताम् ।२३। [युगलम् ॥ मासमेकं स तत्राऽस्थात्प्रियाविनयरञ्जितः । ततः साऽऽपन्नसत्त्वाऽभूत् शुक्तिवन्मौक्तिकोदरा ।२४। १. 'ज्जीर्णशीर्णे' ल ।
आ. नि. सा. नि. 'कथम्'
द्वारम् सामायिकलाभे कथाः दाने कृतपुण्यः । गाथा-८४७ ४६४