SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः ४५७ ************ आख्यत्वाऽथ सा तस्य नामापि सहते न ते । ज्ञातं तेनाऽतिदक्षा सा विक्रीताऽसौ वराकिका | १० | मषीपञ्चाङ्गलीबिम्बात् पृष्ठेऽपद्वारे कर्षणात् । आहूतः कृष्णपञ्चम्यामपद्वाराऽहमेतया । ११ । प्राप्तः सङ्केतका स सुप्तावुपवनेऽथ तौ । भोजने मक्षिकेवाऽऽगात् कुतश्चित् श्वशुरस्तदा । १२ । ददर्शाऽयं न मे पुत्रः कश्चनोपपतिर्ध्रुवम् । आचकर्ष स्नुषापादान्नूपुरं स शनैस्ततः । १३ । ज्ञात्वोचे स तया शीघ्रं नश्य कुर्याः सहायताम् । साऽथ गत्वा पतिं प्रोचे घर्मान्तः सुप्यतां बहिः ।१४। अशोकवनिकामध्ये सुप्तावथ मुहूर्त्ततः । उत्थाप्योवाच सा कान्तं किमिदं वः कुलोचितम् ॥१५ ॥ मत्पदात् श्वशुरोऽगृह्णान्नूपुरं निस्त्रपो जरन् । स ऊचे लप्स्यसे शेष्व सूनोराख्यज्वरी प्रगे | १६ | सोऽवदद्विकोऽसि त्वं सोऽवग्दृष्टः स्फुटं परः । भोक्ष्ये शुद्धेव सोचेऽथो ऊचुः सर्वेऽपि कुर्विति ॥ १७ ॥ तत्र सप्रत्ययो यक्षस्तत्पदोरन्तरे व्रजन् । ध्रियते दोषवांस्तेन निर्दोषो याति तत्क्षणात् ॥ १८ ॥ सास्त्राता स्वजनोपेताऽचालीद्यक्षालयान्तरे । उन्मत्तीभूय तेनाऽसौ श्लिष्टा लोकेन मोचिता । १९ । सा च तत्र गतोवाच यक्ष ! साक्षात् तवाऽऽखिलम् । मुक्त्वा स्वपतिमेतं च न स्पृष्टोऽप्यधुना परः ॥ २० ॥ • शेष्व - 'शिङ् स्वप्ने' धातु-११०४ पञ्चमी-द्वितीय पु. एकवचनम् । अथो अथाऽर्थोऽव्ययः । हेम० १।२ । ३७ [ ओदन्तः ] त्यनेनासन्धिः । **************************** आ. नि. सा. नि. 'कथम्' द्वारम् सामायिक लाभे कथाः अकामनिर्जरायां मिण्ठः । गाथा - ८४७ ४५७
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy