________________
*
*
%
%
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
*********
पुरुषसम्बद्धः पुनर्लोके सम्बद्धोऽसम्बद्धोपि वा भवति ।।६७।। गतिद्वारार्थमाह - * गइनेरइयाईया हिट्ठा जह वनिया तहेव इहं । इड्डी एसा वत्रिजइत्ति तो सेसियाओऽवि ।।६८।। __ यथा गत्यादिषु सत्पदप्ररूपणादयो मतिश्रुतज्ञानयोः पूर्वं वर्णितास्तथेहापि ज्ञेयाः । तथा ऋद्धिरेषाऽवधिरूपा वर्ण्यते इति ततः शेषा अपि * * ऋद्धयः प्रस्तावाद्वर्ण्यन्ते ।।६८।। ता एवाह - आमोसहि विप्पोसहि खेलोसहि जल्लमोसही चेव । संभिन्नसोय उज्जुमइ सव्वोसही चेव बोधव्यो ।।६९।।
आ.नि. * चारणआसीविस केवली य मणनाणिणो य पुव्वधरा । अरहंत चक्कवट्टी बलदेवा वासुदेवा य ।।७०।।
मङ्गलम् आमर्षः करस्पर्शः स एवौषधिर्यस्य स आमर्पोषधिः । विगुडौषधिः खेलौषधिजल्लौषधिः सम्भिन्नानि एकैकशोऽपि सर्वविषयग्राहीणि * अवधिज्ञानम् । *श्रोतांसि इन्द्रियाणि यस्य स सम्भिन्नश्रोता । ऋजुमतिः, मनःपर्यायज्ञानाऽऽद्यभेदः । नखकेशाद्यवयवाः सर्वे औषधयो यस्य स सर्वोषधिः । * गाथा* 'चारणाः' जङ्घाचारणा विद्याचारणाश्च । तत्राद्यास्तपोलब्धितः प्रथमोत्पातेन त्रयोदशे रुचकद्वीपे यान्ति । वलन्तः प्रथमेनोत्पातेन नन्दीश्वरे, * ६८-७० * द्वितीयेन यतो गतास्तत्रायान्ति । ऊर्ध्वं त्वेकोत्पातेन मेरो: पण्डकवनम्, वलन्तस्त्वेकोत्पातेन नन्दनवनम्, द्वितीयेन स्वस्थानमायान्ति । * ३४ * विद्याचारणा एकोत्पातेन मानुषोत्तरम्, द्वितीयेन नन्दीश्वरं यान्ति । वलन्तश्चैकोत्पातेनैव स्वस्थानमायान्ति । ऊर्ध्वं त्वेकोत्पातेन नन्दनवनम्, *
*****