________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
藥華藥華藥華藥業
सागारमणागारा ओहिविभंगा जहन्नया तुल्ला । उवरिमगेविज्जेसुउपरेण ओही असंखिज्जो ।।६५।। * 'साकारं' ज्ञानं विशेषावबोधरूपम् । आगारो उ विसेसो' इति वचनात् । 'अनाकारं' दर्शनं सामान्यावबोधरूपम्, तद्रूपौ अवधिविभङ्गौ * *जघन्यको तुल्यौ जघन्यान्नरकादारभ्य उपरिमग्रैवेयकं यावत् सम्भवेन तुल्यौ, सम्यग्दृष्टेरवधि: मिथ्यादृष्टेविभङ्गम् । तुशब्दोऽप्यर्थे । * *उपरिमग्रैवेयकेष्वपि विशिष्टयतिक्रियस्याऽभव्यस्याऽप्युत्पादाद्विभङ्गसम्भवः । 'परेणेति' परतोऽवधिरेव मिथ्यादृशां तत्रानुत्पादात्, स*
आ.नि. *चासङ्खयेयो योजनापेक्षया ।।६५।। देशद्वारमाह -
मङ्गलम् * नेरइयदेवतित्थंकरा य ओहिस्सऽबाहिरा हुँति । पासंति सबओ खलु सेसा देसेण पासंति ।।६६।।
* अवधिज्ञानम् ।
गाथा__'ओहिस्सऽबाहिरा' अवधेरबाह्या भवन्ति - अवधिरहिता न भवन्तीत्यर्थः । सम्यग्दृष्टिनारकदेवानां भवप्रत्ययोऽवधिः । तीर्थकृतां च *
६५-६७ * प्राग्भविकोऽवधिर्भवत्येव । एते पश्यन्ति सर्वतः 'खलु' निश्चयेन शेषास्तिर्यनरा: देशतः पश्यन्ति ।।६६ ।। क्षेत्रद्वारमाह -
संखिजमसंखिजो पुरिसमबाहाइ खित्तओ ओही । संबद्धमसंबद्धो लोगमलोगे य संबद्धो ।।७।।
अत्रायं तात्पर्यार्थः पुरुषसम्बद्धोऽवधि: क्षेत्रतः सङ्ख्येयोऽसङ्खयेयो वा योजनापेक्षया स्यात् । पुरुषस्य अबाधायां-अन्तरे * * सङ्ख्येयेऽवधिरसम्बद्धः सङ्घयेयोऽसङ्ख्येयो वा भवति । असङ्ख्येयेऽप्यन्तरे तथैव । यस्त्वलोके लोके च सम्बद्धः स पुरुषे सम्बद्ध एव । *
KRKK
*
*
**