________________
आवश्यक
निर्युक्तिः श्रीतिलका
चार्यलघुवृत्तिः
४५५
*************
तत्रैकस्य मुनेः पादे मग्नं शल्यं दुरुद्धरम् । ततस्तदर्थं सर्वेऽस्थुः सशल्यांघ्रिर्मुनिर्जगी । ११ । मदर्थं वो मृतिर्माऽभूत् शल्यमेतन्ममान्तकृत् । तच्छल्योद्धरणाऽशक्ता निर्बन्धात्तेन नोदिताः । १२ । मुक्त्वा तं स्थण्डिले शुद्धे सच्छायस्य तरोरधः । तेऽपि जग्मुः कथमपि शोकशल्येन शल्यिताः । १३ । तदा च तत्र स भ्राम्यन्त्रागाद्वानरयूथपः । पुरोगैस्तुमुलश्चक्रे साधुं तं वीक्ष्य वानरैः | १४ | यूथपस्तमथो पश्यन्नूहापोहेन तत्क्षणात् । जाता जातिस्मृतिः सर्वं प्राग्भवं स्मरति स्म सः । १५ । दृष्ट्वा शल्यं मुनेः शल्योद्धरणीं शल्यरोहिणीम् । गिरौ गत्वाऽऽनयत्साधुं निःशल्यं विदधेऽचिरात् । १६ । साधोरग्रे लिखित्वाख्यत्सोऽथ प्राग्भववैद्यताम् । धर्ममाख्यन्मुनिः सोऽथानशनेन मृतस्त्र्यहात् ॥१७॥
अथ किं तस्याभूदित्याह -
-
सो वानरजूहवई कंतारे सुविहियाणुकंपाए । भासुरवरबुंदिधरो देवो वेमाणिओ जाओ ।। ८४७ ।।
स्पष्टा । नवरं अनुकम्पा भक्तिः । वैमानिकः सहस्रारे ।।८४७ ।। प्रयुज्यावधिमद्राक्षीत् तद्वपुस्तं मुनिं च सः । द्रागेत्याऽदर्शयद्दिव्यां देवद्धिं तां निजां मुनेः | १८ | ऊचे च त्वत्प्रसादेन प्राप्यत श्रीरियं प्रभो ! तेनाऽथोत्पाट्य स मुनिर्नीतः स्वमुनिसन्निधौ । १९ । दृष्ट्वा ते स्माहुरागास्त्वं कथं शल्यमगाच्च ते । सोऽथ वानरवैद्यस्योदन्तं तेषामचीकथत् ॥२०॥
********
आ. नि. सा. नि.
'कथम्' द्वारम् सामायिकलाभे
कथाः
अनुकम्पायां वैद्यः ।
गाथा -
८४७
४५५