SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ E***** आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ४५४ विजे मिठे तह इंदनाग कयपुण्ण पुष्फसालसुए । सिवदुमहुरवणिभाउग आभीरदसन्निलापुत्ते ।।८४६।। अनुकम्पादिभिर्वद्यादिवत् सामायिकं लभ्यत इति द्वयोरर्थः ।।८४५-८४६ ।। अथैतेषां कथा: - नगरी द्वारवत्यासीदुपकण्ठं पयोनिधेः । भोगावती च पातालादागता क्षमापुरेक्षया ।१। रत्नान्यतो गृहीत्वेव सर्वरत्नमयी कृता । पुरीयं वेधसाऽथाऽभूदब्धिरेवाऽब्धिरेष सः ।। नामा कृष्णो नृपस्तत्र चरित्रैर्धवलः पुनः । अहिमांशुः प्रतापेन हिमांशुश्च प्रसत्तितः ।। विद्येते तत्र वैद्यो द्वो वैद्यविद्याविशारदौ । भव्यो वैतरिणी नामा धन्वन्तरिरभव्यकः ।४। चिकित्सां ग्लानसाधूनां भव्यः प्रासुकभेषजैः । विदधाति प्रदत्ते च स्युश्चेत् तानि स्ववेश्मनि ।५। अभव्यो ग्लानसाधूनामाख्यत्सावद्यमौषधम् । प्रासुकं ब्रूहि नः किञ्चिदित्युक्ते सति साधुभिः ।६। स ऊचे न मयाधीतं वैद्यकं भवतां कृते । एवं तौ द्वौ महारम्भौ चिकित्सां कुरुतः पुरि ।७। प्रभुं कृष्णोऽन्यदाऽप्राक्षीद्वैद्ययोः कानयोर्गतिः । जीवांशौषधिदानेन जीवहिंसाविधायिनोः ।८। स्वाम्यूचे सप्तमी पृथ्वीं पापो धन्वन्तरिर्गमी । भव्यो वैतरिणीजीवो गङ्गाविन्ध्यान्तरे हरिः ।९। स च तत्र वयःप्राप्तो भावी यूथपतिः स्वयम् । गमिष्यन्त्यन्यदा तत्र सार्थेन सह साधवः ।१०। •आपो धीयन्तेऽस्मिन् इति अधिः, रत्नशून्यत्वात् इत्यर्थः । - हरिः - वानरः । आ. नि. सा. नि. 'कथम्' द्वारम् सामायिकलाभे कथाः अनुकम्पायां वैद्यः। गाथा-८४६ ४५४ XKR
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy