SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्ति: श्रीतिलकाचार्यलघुवृत्तिः * ४४८ ******** मन्त्री दौहित्रमात्मीयं सह जातानि तानि च । स्वगृहे वर्धयामास ज्ञापितोऽपि न भूपतिः ।९। अग्निको दीपयामास पर्वतोऽध्यासयन्मदे । बहल्यचीकरद्वार्ता सागरस्तमलोभयत् ॥ १० ॥ सुरेन्द्रदत्तस्तान्सर्वानवमत्य महामतिः । कलाचार्यात्कलाः सर्वा जगृहे मन्त्रिशासनात् ॥ ११ ॥ द्वाविंशतिः पुनः पुत्राः शठाः पेतुर्न किञ्चन । आक्रोशन् प्राहरन् षण्डाः पण्डितं गुरुतल्पकाः ॥ १२ ॥ पाठार्थं भापयन्तं च तज्जनन्योऽपि पण्डितम् । अवोचन्वेत्सि किं न त्वं पुत्रान्त्रिस्तूंश ! दुर्लभान् । १३ । इतश्च मथुरापुर्यां जितशत्रुर्नृपाङ्गजाम् । निर्वृत्तिं युवतीमूचे वत्से ! कीदृग्वरोऽस्तु ते ॥ १४ ॥ साऽवदत्तात ! विक्रान्तो राधावेधी वरोऽस्तु मे । ऐन्द्रदत्तिर्भवेदीदृक्कोऽपीति व्यमृशनृपः ॥ १५ ॥ स्वयंवरां ससेनां तां तत्र प्रैषीत् नृपस्ततः । इन्द्रदत्तोऽपि हृष्टोऽभूद् धन्योऽहं सुभगाः सुताः । १६ । समुच्छ्रितपताका पू राज्ञाकारि तदागमे । बहिर्मञ्चा न्यवेश्यन्त राधास्तम्भोऽष्टचक्रयुक् ॥१७ । तस्योपरिष्टात् पाञ्चाली तैलकुण्डमधः पुनः । स्वयंवरामण्डपोऽन्तः कारितः स्वः सभोपमः । १८ । उपाविशन्मण्डलका मचेष्वेकत्र भूपतिः । आस्ते निर्वृत्तिरेकत्र मिलितं सर्वमण्डलम् ॥१९॥ ऊचे राज्ञा सुतो ज्येष्ठः श्रीमाली वत्स ! निर्वृत्तिम् । राज्यं च गृह्यतां कृत्वा वेधं पाञ्चालिकादृशः ॥ २० ॥ सोऽनभ्यासी ततस्तत्र धन्वादानेऽपि न क्षमः । कथमप्यात्तधन्वेषं मुमुचे यत्रतत्रगम् ॥ २१ ॥ *********** ******** आ. नि. सा. नि. कथम् द्वारे मनुष्यत्वदुर्लभतायां दशदृष्टान्ताः चक्रम् (७)। गाथा - ८३२ ४४८
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy