________________
आवश्यक
******
* नियुक्तिः
श्रीतिलकाचार्यलघुवृत्तिः
४४७
*************
राज्यप्रधान राजार्थमश्वराजोऽधिवासितः । स तत्राऽऽगत्य तं दृष्ट्वा हेषित्वाऽदात्प्रदक्षिणाम् ।६। सोऽथ सर्वैः कृतो राजा श्रुतं कार्पटिकेन तत् । द्रष्टुं तं स पुनः स्वप्नमीहते किं स पश्यति ? ७। पश्येद्वा दैवयोगेन न तु स्याजन्म मानुषम् । पुरमिन्द्रपुरं नाम साक्षादिन्द्रपुरं किल । 'सुपर्वजनितानन्दमप्सरोभिर्मनोरमम् ।१। इन्द्रदत्तो नृपस्तस्मिन्नासीदिन्द्र इव श्रिया । सदानभोगः सन्तानप्रीतिश्चित्रं न गोत्रभित् ।२। तस्य द्वाविंशति: पत्न्यस्तजा द्वाविंशतिः सुताः । राज्ञी मन्त्रिसुता चैका परं दृष्टा करग्रहे ।३। अन्यदा तामृतस्त्रातां दृष्ट्वा राजा जगौ निजान् । केयमित्यूचिरे तेऽसौ त्वद्देवी देव ! मन्त्रिसूः ।४। ततस्तां रजनीमेकां तया सह नृपोऽवसत् । साऽभूत्तदा पुष्पवती तद्योगात्फलवत्यभूत् ।५। तद्राजागमनदिनं ते चाऽऽलापा नरेशितुः । तथात्मगर्भसम्भूतिः पितुः सर्वमचीकथत् ।६। तत्सर्वं मन्त्रिणाऽलेखि काले तस्याः सुतोऽभवत् । सुरेन्द्रदत्त इत्याऽऽख्या दत्ता तस्मै तदैव च ।७।
तद्दासीनां च तत्राऽहन्यभूड्डिम्भचतुष्टयी । अग्निकाख्यः पर्वतको बहली सागरस्तथा ।८। *१. 'सदानवं सुमनसां चित्रं मोदं ददाति यत्' प.. इन्द्रपुरं - स्वर्गपुरं, तत्पक्षे सुपर्वाणः देवाः, तैर्जनित आनन्दो यत्र तत् । इन्द्रपुरं पुरं, तत्पक्षे शोभनानि च तानि पर्वाणि-महांसि च । " इति सुपर्वाणि तेजनित आनन्दो यत्र तत् प्रथमपक्षे, अप्सरोभिर्देवीभिः, द्वितीयपक्षे त्वपाम्सरांसि इति अप्सरांसि, तैः । * इन्द्रदत्तराजपक्षे - दानानि च भोगाश्च दानभोगाः, तैः सह वर्त्तते *यः सः इति सदानभोगः । इन्द्रपक्षे तु नभसा गच्छति इति नभोगः, सदा - सर्वदा नभोगः इति सदानभोगः + गोत्रभिद् - इन्द्रः । तत्राऽहनि अभूत् इति सन्धिः ।
आ.नि. सा.नि. कथम् द्वारे मनुष्यत्वदुर्लभतायां दशदृष्टान्ताः चक्रम् (७)। गाथा-८३२
४४७