SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः ४४४ ************ स विप्रः परिपाट्यैवं भुञ्जानोऽत्र गृहे गृहे । राज्ञीराजन्यपौराणां नगरग्रामकोटिषु |१२| यायात्किमन्तं विप्रः स यायाद्वा दैवयोगतः । मानुष्यकात्पुनर्भ्रष्टो न लभेत मनुष्यताम् ।१३ । इहास्ति पाटलीपुत्रं पाटलापुष्पसोदरम् । यद्ददात्युत्तमामुचैर्जडानामपि वासनाम् ।१। तत्रोच्छेदितनन्दोऽभूचन्द्रगुप्तो नृपाग्रणीः । नैर्मल्याद्यद्यशश्चन्द्रोऽजैषीचन्द्रं कलङ्किनम् ॥२॥ चन्द्रगुप्तमहाराजराज्यप्रासादसूत्रभृत् । चाणिक्यस्तत्र मन्त्रीशो बिम्बान्तरित ग्रन्था० ५००० ] राज्यकृत् । ३ । तस्य प्राज्येऽपि साम्राज्ये परं कोशो न विद्यते । देवतावरलब्धास्तु जित्वराः सन्ति पाशकाः ॥४। शिक्ष्यते स्माथ तेनैकश्छेकः कोशार्थिना पुमान् । भृत्वा पात्रं स दीनारै रन्तुं पौरैः सहाविशत् ॥५॥ यो मां जयति तेनेदं ग्राह्यं दीनारभाजनम् । यूयं दीनारमेकं तु ददीध्वं मे जये सति ॥ ६ ॥ एवं ते तेन लोभेन दीव्यन्ति व्यवहारिणः । जीयते न स केनाऽपि स जयत्यखिलानपि ॥७॥ सोऽपि जातु विजीत देवतायाः प्रभावतः । मानुष्यकात्परिभ्रष्टो न लभेत मनुष्यताम् ॥८ ॥ देवो विद्याधरो वापि कश्चित्कौतूहलप्रियः । भरतक्षेत्रधान्यानि निखिलान्यप्यमेलयत् ॥१ ॥ प्रक्षिप्य सर्षपप्रस्थं तत्र सर्वाण्यघोलयत् । तत्रैका स्थविरा जूर्णा सूर्पमादाय पाणिना ॥२॥ 1 आ. नि. सा. नि. 'कथम् 'द्वारे मनुष्यत्व दुर्लभतायां दशदृष्टान्ताः पाशकः (२) धान्यम् (३) । गाथा - ८३२ ४४४
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy