SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ * * ***** आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ४४३ - भरतार्धेऽत्र पञ्चालदेशे काम्पिल्यपत्तनम् । जगजनकृतानन्दं प्रतिच्छन्दं दिवौकसः ।। ब्रह्मदत्तो नृपस्तत्र द्वादश चक्रवर्तिनाम् । यत्प्रतापाद्वयलीयन्त नवनीतमिवारयः ।। एक: कार्पटिकस्तस्य दौस्थ्ये साहाय्यकार्यभूत् । ब्रह्मदत्तोऽभवत्सम्राट् लभते न स दर्शनम् ।। राजपाट्यां नरेन्द्रस्य सोऽथ कार्पटिकद्विजः । उपानही ध्वजे बद्ध्वा पुरोऽभूद् ध्वजिभिः सह ।४। कोऽयं नव्यध्वजो ? राज्ञा वीक्षितो लक्षितश्च सः । अथोत्तीर्याऽऽलिङ्गय राज्ञा स ऊचे किं ददामि ते ।५। स प्राह प्रेयसी पृष्ट्वा पार्थिव ! प्रार्थयिष्यते । सोऽथ गत्वा प्रियामूचे तुष्टो राजा किमर्थये ।। सा दध्यो यद्यसो देशं साचिव्यं वा प्रपत्स्यते । बहिस्तान्मञ्चकस्तन्मे भावी नेक्षिष्यतेऽपि माम् ।७। अथोचे कान्त ! याचेस्त्वं भोजनं भारतेऽखिले । प्रतिवेश्म सदीनारं निष्ठिते पुनरादितः ।८। तत्राऽर्थिते नृपेणोचे देशाद्यं किं न याचसे । हिण्डसे किन्न हस्त्यश्वच्छत्रछायाभिरिन्द्रवत् ।९। * सोऽभ्यधात्किं ममैतेन दध्यौ राजैष तुच्छधीः । उदङ्कः पतितोऽप्यब्यौ किं वाऽऽदत्ते भृतेः परम् ।१०। - दत्तं तत्प्रार्थितं राज्ञा पूर्वं स्वौकसि भोजितः । दत्तोऽस्मै सयुगलको दीनारो दक्षिणापदे ।११। *१. 'भूद्वाजिभिः' ल, । • बहिस्तादेव मञ्चः-स्थितिर्यस्य स बहिस्तान्मश्चकः । * उदङ्कः - घृतादेश्चर्मपात्रम् । ************************ आ. नि. सा.नि. 'कथम्'द्वारे मनुष्यत्वदुर्लभतायां दशदृष्टान्ताः चुल्लकः (१) गाथा-८३२ ४४३ RER
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy