________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
४३७
米樂藥華藥業課業藥華藥華藥業举譯
*पुव्वपवनो देसविरइविवज्जिए हुज्जा ।१। वेदसंज्ञाकषायत्रयद्वारमाह -
चउरोवि तिविहवेए चउसुवि सन्नासु होइ पडिवत्ती । हिट्ठा जह य कसाएसु वत्रियं तह य इहयंति ।।८१८।।
वेदे पुंस्त्रीक्लीबरूपे चत्वार्यपि द्विधापि । संज्ञाचतुष्केऽप्येवम् । अवेदस्तु क्षीणवेदः क्षपको देशविरतिवर्जाणां त्रयाणां पूर्वप्रतिपन्नः स्यात् । ॐ * कषायेषु यथाऽधस्तात् 'पढमिल्लुयाण उदए' इत्यत्र वर्णितं तथात्रापि, सकषायश्चतुर्णामपि द्विधापि । अकषायस्तु छद्मस्थवीतरागस्त्रयाणां * * पूर्वप्रतिपन्न एव ।।८१८।। आयुर्ज्ञानद्वारद्वयमाह -
आ. नि. * संखिज्जाऊ चउरो भयणा सम्मसुयऽसंखवासीणं । ओहेण विभागेण य नाणी पडिवजए चउरो ।।८१९।। *
___ सा.नि.
'क्व' द्वारम् । सङ्घयेयायुर्नरश्चत्वारि प्रतिपद्यते प्रतिपन्नश्च स्यात् । असङ्ख्यातवर्षायुषां सम्यक्त्वश्रुतयोः प्राक्प्रतिपन्नोऽस्त्येव प्रतिपद्यमाने भजना ।*
जना * गाथा'ओघेन' सामान्येन ज्ञानी चत्वार्यपि प्रतिपद्यते नयमतेन पूर्वप्रतिपन्नोऽप्यस्ति । विभागेन आभिनिबोधिकश्रुतज्ञानी *१८-८९९
युगपदाद्यसामायिकयोद्विधापि, उत्तरयोरपि द्विधापि । अवधिज्ञानी आद्ययोः पूर्वप्रतिपन्न एव, नेतरः, देशविरतेरपि पूर्वप्रतिपन्न एव, न * * प्रतिपत्ताऽस्ति, सर्वविरतेर्द्विधापि । मनःपर्यायज्ञानी देशविरतिरहितस्य त्रयस्य प्राक्प्रतिपन्न एव, अचारित्रस्य मनःपर्यायज्ञानाभावात् । केवली *
* ४३७ • अवधिज्ञानी देशविरतिसामायिकस्य पूर्वप्रतिपत्र एव, प्रतिपद्यमानको न घटते, गुणपूर्वकत्वात् तदवाप्नेः । सर्वदेशविरत्यादिगुणत एवावधिज्ञानमित्यर्थः ।
*####**************