________________
आवश्यक
निर्युक्तिः
श्रीतिलका
चार्यलघुवृत्तिः
४३४
सम्मत्तस्स सुयस् य पडिवत्ती छव्विहंमि कालंमि । विरई विरयाविरई पडिवज्जइ दोसु तिसु वावि ।।८११ । ।
सम्यक्त्वस्य श्रुतस्य च प्रतिपत्तिः षट् []विधे सुषमसुषमादिके काले सम्भवति । सामान्योक्तिरियं नोचेत्सुषमसुषमायां सुषमायां च पूर्वप्रतिपन्न एव घटते, देशोनपूर्वकोट्यायुष एव प्रतिपत्तुर्भणनात् । तथा षष्ठारकेऽतिक्लिष्टत्वाद्विलवासिषु क्व सामायिकमित्यपि न वाच्यम् । तत्रापि कदाचित्सम्यक्त्वमात्रप्रतिपत्ता कश्चित् स्यादपीति भगवत्यां प्रतिपादनात् । 'विरतिं' सर्वविरतिं विरताविरतिं च उत्सर्पिण्यां द्वयोः दुःषमसुषमासुषमदुःषमयोः, अवसर्पिण्यां त्रिषु सुषमदुःषमा दुःषमसुषमा दुःषमाख्येषु प्रतिपद्यन्ते, पूर्वप्रतिपन्नस्त्वस्त्येव । ‘अपि’ शब्दात्संहरणापेक्षया पूर्वप्रतिपन्नः सर्वकालेषु सम्भवति । प्रतिभागकालेषु त्रिषु सम्यक्त्वश्रुतयोः प्रतिपद्यमानः सम्भवति पूर्वप्रतिपन्नस्त्वस्त्येव । चतुर्थे तु प्रतिभागे चतुर्विधस्यापि प्रतिपद्यमानः पूर्वप्रतिपन्नश्चास्ति । बाह्यद्वीपसमुद्रेषु कालव्यवस्थारहितेषु त्रयाणां प्रतिपद्यमानकः सम्भवति । प्रतिपन्नश्चास्त्येव । । ।८११ । । गतिद्वारमाह -
चउसुवि गईसु नियमा सम्मत्तसुयस्स होइ पडिवत्ती । मणुएसु होइ विरई विरयाविरई य तिरिए । । ८१२ । । स्पष्टा ।।८१२ ।। भव्यसंज्ञिद्वारमाह -
भवसिद्धिओ य जीवो पडिवज्जइ सो चउन्हमन्त्रयरं । पडिसेहो पुण असनिमीसए सन्नि पडिवज्जे ।।८१३ । ।
आ. नि.
सा. नि.
'क्व' द्वारे
गतिद्वारम्
भव्यसंज्ञि
दारम् ।
गाथा८११-८१३
४३४