SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ४३३ ऊर्ध्वाधोदिग्द्वये दुन्हेव द्वयोराद्यसामायिकयोरेवमेव 'दुन्हेवं' द्वयोरुत्तरसामायिकयोः पूर्वप्रतिपन्नः स्यात्, 'नान्यः' प्रतिपद्यमानः । भावदिक्ष्वाह * - उभयाभावो पुढवाईएसु विगलेसु हुन्ज उ पवन्नो । पंचिदियतिरिएसुं नियमा तिन्हं सिय पवजे ॥१। नारगदेवाकम्मयअंतरदीवेसु दुन्ह* भयणाओ । कम्मजनरेसु चउसुं मुच्छेसु उ उभयपडिसेहो ।२। पृथिव्यादिषु पञ्चसु उभयाभावो न प्रतिपद्यमानो न पूर्वप्रतिपन्नः । विकलेन्द्रियेषु * सम्यक्त्वश्रुतसामायिकयोः स्यात् पूर्वप्रतिपन्नो नेतरः । पञ्चेन्द्रियतिर्यक्षु नियमात्सर्वविरतिवर्जानां त्रयाणां पूर्वप्रतिपन्नोऽस्ति, स्यात् * * प्रतिपद्यमानोऽपि । नारकदेवाऽकर्मभूमिजान्तरद्वीपकनरेषु सम्यक्त्वश्रुतयोः पूर्वप्रतिपन्नोऽस्त्येव, इतरश्च भाज्यः । कर्मभूमिजमनुष्येषु आ.नि. चतुर्णामपि पूर्वप्रतिपन्नोऽस्त्येव, प्रतिपद्यमानकस्तु भाज्यः । संमूर्च्छजेषूभयाभावः । कालद्वारमधुना । कालस्त्रिविधः । उत्सर्पिणी, * सा.नि. 'क्व'द्वारे *अवसर्पिणी, अवस्थितश्च । आद्ययोः षट् षट् आरकाः । सुषमसुषमा । १ सुषमा । २ । सुषमदुःषमा ।३। दुःषमसुषमा । ४ । दुःषमा कालद्वारम् । । ५ । दुःषमदुःषमा ।६। क्रमेणावसर्पिण्या उत्क्रमेणोत्सर्पिण्यां भरतैरवतेष्वयं कालक्रमः । अन्यत्रावस्थितः, स चतुर्धा । सुषमसुषमा * गाथा* प्रतिभागः, सुषमा प्रतिभागः, सुषमदुःषमा प्रतिभागः, दुःषमसुषमा प्रतिभागः । प्रथमो देवकुरूत्तरकुरुषु । द्वितीयो हरिवर्षरम्यकयोः । तृतीयो के * हैमवतैरण्यवतयोः । चतुर्थो विदेहेषु ।।८१०।। ततश्च क्व काले कस्य सामायिकस्य प्रतिपत्तिरित्याह - ८१० K******* ४३३
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy