________________
आवश्यक- तपःप्रधानसंयमस्तपःसंयमः, प्रथमा द्वितीयार्थे, ततश्च चारित्रसामायिकम्, 'नैर्ग्रन्थं प्रवचनमिति' अनेन श्रुतसामायिकम्, 'च'शब्दात् * नियुक्तिः
सम्यक्त्वसामायिकम् चेति, सामायिकत्रयमपि, व्यवहारो नय: अनुमतः अनुमन्यते स्मेति कर्तरि । व्यवहारग्रहणान्नैगमसङ्ग्रहावपि गृह्यते ।* श्रीतिलका- *ततश्चाद्यास्त्रयोऽपि नयाः सामायिकत्रयमपि मन्यन्ते, तर्हि कथं मिथ्यादृशः ? उच्यते, त्रीण्यपि मन्यन्ते, न तु त्रीण्येव, अतो मिथ्यादृक्त्वम् । * चार्यलघुवृत्तिः
*'सद्दुज्जुसुयाणंति,' व्यत्ययपाठात् उत्तरावपि नयौ गृह्यते । ततश्च ऋजुसूत्रादयश्चत्वारोऽपि नयाः संयम एव चारित्रसामायिकमेव ४२३
आ. नि. निर्वाणकारणत्वेनोपचारानिर्वाणमिति मन्यन्ते, नेतरे द्वे तद्भावेऽपि मोक्षो न स्यात् । भावतश्चारित्रसामायिकभावे तु स्यादिति ।।७८९।।*
सा. नि. * 'उद्देसे निद्देसे य' इति [गाथा-१४०] प्रथमद्वारगाथावयवार्थः समर्थितः । इदानीं द्वितीयस्याः [गाथा-१४१] प्रथमद्वारावयवः किमिति, सामायिकं *
अनुमतद्वारम् * किं ? जीवो अजीवस्तदुभयं अनुभयं द्रव्यं गुणो वेत्यादिशङ्कानिरासार्थमाह
* 'किं' द्वारम् । आया खलु सामाइयं पञ्चक्खायंतओ हवइ आया । तं खलु पञ्चक्खाणं आवाए सव्वदव्वाणं ।।७९०।।
गाथा-७९० आत्मैव जीवः सामायिकम् । एतेनाऽजीवादिविकल्पनिरासः । प्रत्याचक्षाणश्च भवत्यात्मा, ज्ञानादिस्वस्वभावावाप्तेः,* प्रत्याख्यानमकुर्वश्चात्मैव न भवति, प्रभूतकावृतस्वभावगुणत्वात् । 'खलु' चार्थे तञ्च प्रत्याख्यानम्, प्रत्याख्येयानां सर्वद्रव्याणामापाते.
४२३ समवाये सति भवति ।।७९०।। किं रूपः सन्नात्मा सामायिकमिति भाष्यकृदाह -
*************
*********