________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
४१३
आ. नि. सा.नि.
**
準準準準準準準準準準準準準準準準
तत्र तीरप्रभोद्याने मणिनागसुरालये । स्थितः सभायामाचख्यौ द्विक्रियावेदनं समम् ।८। मणिनागस्ततोऽवादीत्प्रत्यक्षीभूय तत्क्षणात् । दुष्टशैक्ष ! किमुत्सूत्रं प्रज्ञापयसि दुर्मते ! ।९। श्रीवीरोऽप्यभ्यधादेकक्रियावेदनमेव भोः । तत्किं ततो विशिष्टस्त्वं त्यजैतन्मियसेऽन्यथा ।१०। प्रबुद्धस्तत्क्षणान्मेने राजाज्ञामिव तद्गिरम् । सर्वमालोचयामास गुरोर्गत्वान्तिकेऽथ सः ।११। पञ्चमो निह्नवः । षष्ठमाह - भा० पंचसया चोयाला तइया सिद्धिं गयस्स वीरस्स । पुरिमंतरंजियाए तेरासिय दिट्ठि उप्पन्ना ।।१३५।। 'पुरिमंतरंजियाए' अन्तरञ्जिकायां पुरि शेषं स्पष्टम् । यथोत्पन्ना तथाह - भा० पुरिमंतरंजि भूयगुह बलसिरि सिरिगुत्त रोहगुत्ते य । परिवायपोट्टसालो घोसणपडिसेहणा वाए । १३६।। पोट्टे देश्यत्वादुदरम् । शेषार्थः कथातो ज्ञेयः - इहान्तरञ्जिकापुर्यां बलश्रीरभवनृपः । तत्र भूतगुहोद्याने तस्थुः श्रीगुप्तसूरयः ।। तच्छिष्यो रोहगुप्ताख्यो ग्रामेऽन्यत्र स्थितोऽभवत् । समागच्छत्युपाचार्य स च प्रायेण वन्दितुम् ।२। परिव्राट् वादिराट कोऽपि तत्राऽऽयात: कुतोऽपि हि । पोट्टे बद्ध्वाऽयसः पट्टे जम्बूशालां करे वहन् ।३।
************ 紧紧紧紧紧紧紧紧紧紧紧紧紧紧紧紧紧
* नयसमवतारद्वारे * षष्ठो निह्नवः
रोहगुप्तः । गाथा-७८३ भा० गाथा१३५-१३६
४१३