SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ४०८ ऊचुस्ते गुरवः किं भोस्त्वयैवं धर्षिता वयम् । स ऊचे चेत्प्रमाणं वो मतं तत्प्रतिलाभिताः ।१०। श्रीवीरस्य मतं चेद्वो मतं न प्रतिलाभिताः । सम्बुद्धास्तेऽभ्यधुर्नस्त्वं मजतां तारकोऽभवः ।११। ततस्तानद्धताभक्तिविधिना प्रत्यलाभयत् । तथाऽऽलोच्य प्रतिक्रम्य व्यहरन् श्रीजिनाज्ञया ।१२। अमुमेवार्थमाह - भा. रायगिहे गुणसिलए वसु चउदसपुवि तीसगुत्ताओ । आमलकप्पा नयरी मित्तसिरी कूरपिंडगाई ।।१२८॥ ऋषभपुरराजगृहयोर्घटकुम्भवदेकार्थत्वम् । ततो राजगृहे गुणशैलके उद्याने वसुश्चतुर्दशपूर्वी तच्छिष्यस्तिष्यगुप्तस्तस्मादेषा दृष्टिरासीत् । आमलकल्पायां नगर्या मित्रश्रीः श्रावकः 'कूरपिण्डादि' प्रतिबोधोपाय: । द्वितीयो निह्नवः । अथ तृतीयमाह - भा. चउदस दो वाससया तइया सिद्धिं गयस्स वीरस्स । अब्बत्तयाण दिट्ठी सेयवियाए समुप्पना ।।१२९।। चतुर्दशाधिके द्वे वर्षशते । शेषं स्पष्टम् । कथा चेयं - नगर्या श्वेतवीनाम्न्यां पोलासोद्यानवेश्मनि । आर्याषाढाभिधाचार्याः सगच्छाः समवासरन् ।। आ.नि. निह्नवः तृतीयो निवः । आर्याषाढाचार्यशिष्याः । गाथा-७८३ भा. गाथा १२८-१२९ ४०८ १ तानुद्गताभक्तिविधिना प. प ल ।
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy