________________
*******
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
४०६
एवं प्ररूपयत्रूचे गीतार्थरार्हतं वचः । जमाले ! माऽन्यथा कार्षीस्तदुक्तं श्रद्दधे न सः ।८। तमुज्झित्वा गतास्तेऽथ श्रीवीरस्वामिनोऽन्तिके । तस्थुस्तथैव शेषास्तु तद्वत्स्वामिसुताप्यभूत् ।। जमालिरिव साप्याऽऽख्यन्मतं तन्मतभाविता । स्वामिश्रावकमप्यूचे ढकं शय्यातरं तथा ।१०। ढङ्केनाङ्गारकं क्षिप्त्वाऽकाणि तत्कम्बली ततः । सेयं साउथाऽऽह किं ढङ्क! दग्धाऽस्मत्कम्बली त्वया ।११। सोऽवदद्भगवद्वाक्यं चेन्मतं तददह्यत । भवन्मतेन नो दग्धा दग्धा स्याद्भस्मसात्कृता ।१२। ततः प्रबुद्धा साऽवादीन्मिथ्यादुःकृष्कृतमस्त्विह । प्रज्ञापितवती साऽथ जमालिं स तु नाऽबुधत् ।१३।। साधुपञ्चशती साध्वीसहस्रश्च तया सह । श्रीवीरस्वामिपार्श्वेऽगात् ढङ्कस्य प्रतिबोधनात् ।१४। जमालि: पुनरेकाकी स्वसङ्कल्पविकल्पनैः । अनालोच्या प्रतिक्रम्य कालधर्ममुपागतः ।१५। प्रथमो निह्नवः । द्वितीयमाह - भा. सोलस वासाणि तया जिणेण उप्पाडियस्स नाणस्स । जीवपएसियदिट्ठि उसभपुरंमी समुप्पन्ना ।। १२७।। स्पष्टा । कथा चेयं - .'कणण् निमीलने' हेमधातुपाठे - १७३७ धातुक्रमाङ्कः ।
आ.नि.
सा.नि. *नयसमवतार
द्वारे प्रथमो निह्नवः जमालिः। गाथा-७८३ भा. गाथा
१२७
************
४०६