________________
आवश्यक
निर्युक्तिः
श्रीतिलका
चार्यलघुवृत्तिः
४०५
*******
स्पष्टा । एतदुत्पत्तिसङ्ग्रहमाह -
भा०जिट्ठा सुदंसणा जमालिऽणुज्ज सावत्थि तिंदुगुज्जाणे । पंचसया य सहस्सं ढंकेण जमालि मुत्तूणं ।। १२६ ।। ज्येष्ठा - बृहत्तरा सुदर्शना श्रीवीरस्वसा । जमालिस्तत्पुत्रः । अणुज्जा प्रियदर्शना भगवत्पुत्री जमालिभार्या । श्रावस्त्यां तिन्दुकोद्याने पञ्चशतानि साधूनाम्, सहस्रं साध्वीनाम्, ढङ्केन कुम्भकारश्रावकेण, जमालिं मुक्त्वा प्रतिबोधितानीति शेषः । कथा चेयं पुरं कुण्डपुरं तत्र जमालिः स्वामिजामिजः । प्राव्राजीद्भगवत्पार्श्वे सहस्रार्द्धपरिच्छदः ॥ १ । तद्भार्या भगवत्पुत्री अनोद्या पुण्यनोदिता । अनुप्रव्रजिता तं च सहस्रपरिवारिता ।२। अधीतैकादशाङ्गः सन्नापृच्छ्य प्रभुमेकदा । जमालिः सपरिवार : श्रावस्ती नगरीं गतः | ३ |
स तस्यां तिन्दुकोद्यानेऽतिष्ठचैत्ये च कोष्ठके । अन्तप्रान्ते रुजाऽऽक्रान्तः स्थातुं नाऽशकदासने ।४ । साधूनुवाच दुःखार्त्तः संस्तरं रचयन्तु मे । लग्नास्ते संस्तरं क्षेप्तुं जमालिस्तूत्सुको रुजा ॥५॥ संस्तृतं वा न वेत्याह संस्तृते कथिते हि सः । गतोऽर्द्धसंस्तृतं दृष्ट्वा तान्नूचे ब्रूत किं मृषा ॥ ६ ॥ क्रियमाणं कृतमिति वचनं श्रौतमप्यदः । कर्मोदयवशाद्दध्यौ न सत्यमिति दुर्मतिः ॥७॥
• अनोद्या प्रियदर्शनाया अपरनाम ।
-
******
आ.नि.
सा.नि.
नयसमवतार
द्वारे प्रथमो निह्नवः जमालिः ।
गाथा - ७८३
भा. गाथा १२६ ४०५