SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ 兩業業樂業 आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ४०२ ऊचुस्ते किं मुहूर्त न धृतोऽस्माकं निरीक्षितुम् । शक्रोक्तमथ ते तेषामाख्यन् दुःखमथ स्थिताः ।१८५। अथाऽन्यदा दशपुरं यान्ति स्म गुरवः क्रमात् । मथुरां नास्तिकस्त्वागात्सर्वं नास्तीति स ब्रुवन् ।१८६ । सङ्घः सङ्घाटकं प्रेषीत् गुरुं ज्ञापयितुं ततः । तैर्गोष्ठामाहिल: प्रैषि न्यग्रहीत्तं स वादिनम् ।१८७। श्रावकरथ तत्रैव चतुर्मासीं स कारितः । इतश्चायुनिजं ज्ञात्वा गुरवो गच्छमूचिरे ।१८८। आचार्यः कोऽस्तु वः स्माहु स्वजनाः फल्गुरक्षितः । स्याद्गोष्ठामाहिलो वाऽपि पुष्पस्त्वभिमतो गुरोः ।१८९ । शब्दयित्वाऽथ निःशेषान् गुरुर्दृष्टान्तमूचिवान् । नि:पा[ष्पा वतैलहव्यानां क्रियन्तेऽधोमुखाः कुटाः ।१९० । सर्वे निर्यान्ति नि:पा[ष्पा वास्तैलांशाः सन्ति केचन । तिष्ठत्याऽऽज्यं पुनः प्राज्यमेवमेतेष्वहं त्रिषु ।१९१ । पुष्पं प्रति श्रुतेनाऽहं नि:पा[ष्पा वकुटसन्निभः । घृतकुम्भः पुनर्गोष्ठामाहिलं मातुलं प्रति ।१९२। फल्गुरक्षितमाश्रित्य तैलकुम्भसमस्तथा । तदाचार्योऽस्तु वः पुष्पस्तैरपि प्रत्यपद्यत ।१९३। नवाचार्य तथा साधूननुशिष्य यथोचितम् । विधायाऽनशनं शुद्धं स्वर्गलोकमगाद्गुरुः ।१९४ । तद्गोष्ठामाहिलेनाऽपि श्रुतं यद् द्यामगाद् गुरुः । नि:पा[ष्या]वकुटदृष्टान्तात्पुष्पश्च स्वपदे कृतः ।१९५ । स गोष्ठामाहिलोऽथैत्य पृथक् तस्थौ तदाश्रयात् । कर्मबन्धविचारेऽभूनिवः सोऽन्यथोक्तित: ।१९६ । आवश्यकनियुक्तिः सामायिक नियुक्तिः * नयसमवतार द्वारे आर्यरक्षितः। गाथा-७७७ ********* *********** ४०२ KXXX * 準準準準 * *
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy