________________
आवश्यक- नियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
४०१
********
कालिकश्रुतसत्के अर्थे उपगतानि सम्बद्धानीत्यर्थः ।।७७७।।
अथार्यरक्षिताचार्या मथुरानगरी गताः । तत्र यक्षगुहायां च व्यन्तरायतने स्थिताः ।१७५ । इतः शक्रो विदेहान्तः श्रीसीमन्धरसन्निधौ । निगोदजीवानप्राक्षीद्धगवान् व्याचकार तान् ।१७६ । अथोचे भरतेऽप्येवं निगोदान् वक्ति कश्चन । भगवानूचिवानार्यरक्षिताः सन्ति सूरयः ।१७७ । भिक्षागते साधुवृन्दे वृद्धब्राह्मणरूपभाक् । शक्रोऽभ्यागत्य पप्रच्छ कियदायुः प्रभो ! मम ।१७८ । भणितं यवकेष्वायुरुपयुज्याऽथ तेषु ते । यावत्तदायुरीक्षन्ते तावद् द्वे सागरे गतम् ।१७९। । अथोत्पाट्य ध्रुवावूचे शक्रस्त्वं सोऽब्रवीत्ततः । हेतुं स्वागमने तेऽथ निगोदान् स्वामिवजगुः ।१८०। ततस्तुष्टः प्रणम्योचे शक्रो यामीति तेऽभ्यधुः । तावदागमयस्व त्वं यावदायान्ति साधवः ॥१८१। ये चला निश्चलास्ते स्युर्येन त्वां वीक्ष्य दीक्षिताः । स ऊचेऽल्पा: करिष्यन्ति निदानं वीक्ष्य माममी ।१८२। तेऽभ्यधुः कुरुत चिह्नमथ यक्षगुहामुखम् । शक्रोऽन्यथा विधायाऽगादाऽऽजग्मुश्च तपोधनाः ॥१८३।
ते च द्वारं न वीक्षन्ते गुरवस्तानथाऽभ्यधुः । शक्रो द्वारं व्यधादित्थमित एत ततोऽधुना ।१८४। *१. 'रीक्षते' प 'रीक्ष्यन्ते' ल, ल, प, ख । • 'आगमयस्व'-(गमेःक्षान्तौ) ३/३/५५ इत्यनेनात्मनेपदी, 'प्रतीक्षस्व' इत्यर्थः ।
आ. नि. सामायिक
नियुक्तिः नयसमवातार
द्वारे आर्यरक्षितः। गाथा-७७७
*************
४०१