SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ३९९ कुटुम्बमिति साधूनां लाभं स प्रथमं ददौ । आनीयाऽऽद स्वयं पश्चात्सखण्डाज्यं स पायसम् ।१५९। स एवं लब्धिसम्पन्नोऽभूद्वालाद्युपकारकः । तदा दुर्बलिकापुष्पः पुष्पौ च घृतवस्त्रयोः ।१६० । गुर्विण्या धिग्जया षड्भिर्मासैर्यन्मिलितं घृतम् । घृतपुष्पस्य तद्दद्यात्साऽपि तल्लब्धिरीदृशी ।१६१ । निर्वीरा काऽपि कष्टेन कर्त्तनात्साटकं व्यधात् । वस्त्रपुष्पस्य तं दद्यात्साऽप्यन्येषां किमुच्यते ।१६२। तत्र दुर्बलिकापुष्पोऽधिगतां नवपूर्विकाम् । दुर्बलोऽभूत् स्मरन्नित्यं विस्मारयति चाऽस्मरन् ।१६३। सौगते वितास्तस्य स्वजना गुरुमूचिरे । अस्माकं भिक्षवो ध्यानपरा न ध्यानमस्ति वः ।१६४। ध्यानाहुर्बलिकापुष्पो दुर्बलोऽयं गुरुर्जगौ । तान्याहुर्गृहवासेऽभूत् स्निग्धाहारादसो बली ।१६५ । न स वोऽस्ति गुरुः स्माह घृतपुष्पा बहुः स नः । प्रत्ययश्चेन वो नीत्वा स्वगृहे पोष्यतामयम् ।१६६ । ततस्तै: पोषितोऽत्यन्तं पूर्वध्यानात्तथैव सः । अथाऽध्यानः कृतः पूज्यैः प्रान्तभोज्यप्यभूदली ।१६७। ततस्तानि प्रबुद्धानि श्रावकत्वं प्रपेदिरे । तत्र गच्छे च चत्वारो मुख्यास्तिष्ठन्ति साधवः ।१६८ । आद्यो दुर्बलिकापुष्पो द्वितीयः फल्गुरक्षितः । विन्ध्यस्तृतीयको गोष्ठामाहिलश्च चतुर्थकः ।१६९ । आ. नि. सामायिकनियुक्तिः नयसमवतार द्वारे आर्यरक्षितः । गाथा-७७६ ३९९ *.धिग्जा - ब्राह्मणी, तया । E***
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy