SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ३९७ k******** 'यत्र लक्षान्नभिक्षा ते स्यात्तत्राशु सुभिक्षता' । वज्रस्वामीदमूचे मां नाऽन्यथाभावि तद्वचः ।१३६। तन्दुलानां तदैवाऽथ पोतास्तत्र समागमन् । सुभिक्षं सहसा जातं कुटुम्बं प्रत्यबोधि तत् ।१३७ । चन्द्रनागेन्द्रविद्याभृदुद्वहः सममीश्वरीम् । अदीक्षयद्वज्रसेनस्तेभ्योऽभूद्वज्रसन्ततिः ।१३८ । इतश्च रक्षिताचार्यैर्गतैर्दशपुरं तदा । प्रव्राज्य स्वजनान् सर्वान् स्वाजन्यं प्रकटीकृतम् ।१३९। स्नेहात् पितापि तैः सार्धमास्ते गृह्णाति न व्रतम् । ब्रूते सुतास्नुषादीनां पुरोऽनावरणस्नपे ।१४०। उक्तः पुत्रेण सोऽवादीत् प्रव्रजिष्याम्यहं परम् । उपानत्कुण्डिकाछत्रवस्त्रयुग्मोपवीतभृत् ।१४१। ददिरे पितुराचार्याः प्रपद्येदमपि व्रतम् । स च तत्पालयामास ब्रह्मवेषं तु नाऽमुचत् ।१४२। अथोचुः शिक्षिता डिम्भाः सर्वान् वन्दामहे मुनीन् । मुक्त्वा छत्रिणमेकं तु तत्पराभवतोऽथ सः ।१४३।। ऊचे छत्रेण पुत्राऽलं गुरुरप्याऽऽह सांप्रतम् । तापे दद्याः पटीं मौलावेवं सर्वाण्यमोच्यत ।१४४। अन्यदोपगते साधौ साधवः पूर्वसंज्ञिताः । अहंपूर्विकया वोढुं गुरुमूलमुपस्थिताः ।१४५। स्थविरोऽप्यूचिवान् पुत्र ! श्रेयश्चेत्तद्वहाम्यहम् । गुरु: स्माहोपसर्गः स्यात्स सह्यो मेऽन्यथा क्षतिः ।१४६। * आ. नि. सामायिकनियुक्तिः नयसमवतार द्वारे आर्यरक्षितः। गाथा-७७६ * * ३९७ * १. 'मोच्यतः' ख ल .. उद्वहः पुत्रः । KXX 藥華藥華藥
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy