________________
भ
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
गतं दुर्भिक्षमित्येतद् विज्ञाय स्थानमाचरेः । वज्रस्वामी पुनर्भक्तं विमोक्तुं सपरिच्छदः ।१२४ । लघुक्षुल्लक एकस्तु तिष्ठेत्युक्तोऽपि साधुभिः । नाऽस्थादाख्याय भव्यानामथ व्यामोह्य तं गतः ।१२५ । शैलमेकमथाऽऽरुक्षत् क्षुल्लकोऽप्यनु तत्पदैः । नितम्बे तद्रेिः स्थित्वा पादपोपगमं व्यधात् ।१२६ । तापेन म्रक्षणमिव विलीय द्यां स जग्मिवान् । सुरैस्तन्महिमा चक्रे किमिदं मुनयोऽवदन् ।१२७ । आचख्युर्गुरवस्तेषां क्षुल्लः स्वार्थमसाधयत् । ऊचुस्ते दुःकष्किार तर्हि नाऽस्माकं स्वार्थसाधनम् ।१२८ । प्रत्यनीकामरी तत्र श्राविकारूपभाक् मुनीन् । न्यमन्त्रयद्भक्तपाने: पारणं क्रियतामिति ।१२९ । प्रत्यनीकेति तां ज्ञात्वा गुरवोऽन्यं गिरिं ययुः । कायोत्सर्गमधिष्ठात्र्यै चक्रुः साऽऽगत्य तानवक् ।१३०। पूज्याः ! सन्तु सुखेनाऽत्र ततस्तत्र समाधिना । चक्रुः कालं रथेनैत्य शक्रस्ताननमत्ततः ॥१३॥ प्रदक्षिणां रथस्थोऽदाद्वृक्षादीनप्यनामयत् । ते तथैवाऽस्थुरद्रिः स तद्रथावत इत्यभूत् ।१३२। वज्रसेनस्तु यः प्रेषि स सोपारपुरं गतः । धान्यमादाय लक्षणाऽपाक्षीत्तत्रेश्वरी सदा ।१३३। दध्यो चाऽत्र विषं क्षिावा स्मृत्वा पञ्चनमस्कृतिम् । कुर्मः समाधिना कालमिति तत्प्रगुणीकृतम् ।१३४ ।
स चाऽगात्तद्गहे साधुस्तेन तं प्रतिलाभ्य सा । स्वमाख्यचिन्तितं तस्य सोऽब्रवीन्मा कृथा इदम् ।१३५। *१. 'गताः' ल, ल, ख छ प. प. ।
आ. नि. सामायिकनियुक्तिः नयसमवतारद्वारे आर्यरक्षितः। गाथा-७७६
३९६
準準準準畢業举 举举举