________________
k****
*******
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
३९५
****
सोऽभ्यधाद् भ्रातराऽऽगच्छ व्रतार्थी ते जनोऽखिलः । स ऊचे सत्यमेतझेत्तत्त्वमादौ परिव्रज ।११३। लग्नः प्रव्रज्य सोऽध्येतुमधीयन् रक्षितोऽग्रतः । यविकर्पूर्णितोऽप्राक्षीत् शेषमस्य कियत्प्रभो! ।११४ । स्वाम्यूचे सर्षपं मेरोबिन्दुमब्धेस्त्वमग्रही: । ततो दध्यो विषण्णात्मा दुःप्रा[ष्पापं पारमस्य मे ।११५ । अथापृच्छत्प्रभो ! यामि भ्राता मामाऽऽह्वयत्यलम् । आहुस्तेऽधीष्व तस्याथ पोनः पुन्येन पृच्छतः ।११६ । उपयुज्य गुरुर्जज्ञे पूर्व स्थास्यत्यदो मयि । व्यसृजत्तं दशपुरं सानुजः सोऽथ जग्मिवान् ।११७ । वज्रस्वामी तु याति स्म विहरन् दक्षिणापथम् । श्लेष्मार्त्याऽऽनायितां शुण्ठीमेकदा श्रवणे न्यधात् ।११८ । मुखे क्षेप्स्यामि भुङ्क्त्वेति भोजनान्ते स्मृता न सा । विकाले च प्रतिक्रान्ती मुखपोतीहताऽपतत् ।११९ । उपयोगादथ ज्ञातमाः ! प्रमादोऽन्तिके मृतिः । प्रमादे संयमो नास्ति युज्यतेऽनशनं ततः ।१२० । द्वादशाब्दं च दुर्भिक्षं तदासन्नवहा: पथाः । विद्यापिण्डं तदानीय बज्रः साधूनभोजयत् ।१२१ । अथोचे तान् न भिक्षाऽस्ति विद्यापिण्डेन वर्त्तनम् । ऊचुस्ते व्रतहान्या किं क्रियतेऽनशनं प्रभो ! ।१२२ ।
वज्रसेनोऽन्तिषज्ज्ञात्वा प्राक् प्रेषीत्यनुशिष्य तु । यत्र त्वं लभसे भिक्षां लक्षजानात्तदा मुने ! १२३ । *१. 'दक्षणापथे' प छ, दक्षणापथं प, ल, ख; दक्षिणापथे - ल, । अधीयन् - अधि+इ ५/२/२५ (धारीङोऽकृच्छ्रेऽतृश्) सुखसाध्येऽर्थे - अतृश् ।
आ. नि. सामायिकनियुक्तिः नयसमवतार
द्वारे आर्यरक्षितः। गाथा-७७६
*
*
*
*
*
*
%
%
%
३९५