SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ३९० प्रतिबिम्बं विमुच्याऽत्र प्रतिमाऽपि हताऽमुना । प्रतिमां मुञ्च चेट्यस्तु दूतेनोचेऽथ तं नृपः ।५७। नार्पयत्तां स राजाऽथाचालीज्येष्ठेऽपि तं प्रति । दशापि गणराजानस्तस्य तेन सहाऽचलन् ।५८। तापातं च मरौ सैन्यं जलाभावादबाध्यत । ततः प्रभावतीदेवः स्मृतोऽकार्षीत्रिपुष्करीम् ।५९। आदिमध्यान्तगां सैन्ये सुस्थोऽथोजयिनीं ययौ । पुनर्मूतेन राजोचे प्रद्योतं को जनक्षयः ।६०।। द्वयेऽपि सैनिकाः सन्तु पश्यन्तः पारिपार्श्विकाः । आरूढयोः पदात्योर्वा तुल्यस्थित्यो रणोऽस्तु नौ ।६१। ऊचे प्रद्योतराजोऽपि सावष्टम्भमिदं वचः । योत्सावहे रथेनाऽऽवां प्रगेऽभ्येत्य रणाङ्गणे ।।२। । अथारुह्याऽनलगिरिं प्रद्योतः प्रातरागतः । उदायनो रथेनाऽगादवन्तीशं जगाद च ।६३। राजन्नसत्यसन्योऽसि नास्ति मोक्षस्तथापि ते । भावी प्रद्योत ! खद्योतस्त्वं मद्वाणार्करुग्हतः ।६४। रथं न्यस्याऽथ मण्डल्यां प्रद्योतेभमुदायन: । उत्क्षिप्तोक्षिप्तपादान्तः क्षिप्त्वा बाणानपातयत् ।६५। प्रद्योतो निपतत्रागाद्वद्ध्वोदायनभूभुजा । भाले दासीपतिरिति दत्वाऽवं धरणे कृतः ।६६ । गत्वा राजा ततोऽवन्त्यां दत्वाऽऽज्ञां सर्वतो निजाम् । निषिद्धः प्रतिमां गृह्णनधिष्ठात्र्याऽचलत्ततः ।६७। आ. नि. सामायिकनियुक्तिः नयसमवतार द्वारे आर्यरक्षितः। गाथा-७७६ ३९० १. 'पाश्चिका जनाः' ल ।. ज्येष्ठेऽपि - ज्येष्ठमासेऽपि इत्यर्थः । * मम बाणः, मद्बाणः, स एवार्कः सूर्यः, तस्य रुक् कान्तिः, मद्बाणार्करुक, तया हतः ।
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy