SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ २७ आवश्यक- आहारतेयलंभो उक्कोसेणं तिरिक्खजोणीसु । गाउय जहन्नमोही नरएसु उ जोयणुक्कोसो ।।४६।। नियुक्तिः 'आहारतेयलंभो' इति भणनात् औदारिकवैक्रिययोरपि ग्रहणं ततश्च औदारिकवैक्रियतैजसाहारकद्रव्याणि उत्कृष्टतोऽवधिना तिर्यग्योनयः श्रीतिलका पश्यन्ति । जघन्यतस्त्वौदारिकमिति चूर्णी । नारका जघन्येन गव्यूतं उत्कर्षेण योजनं अवधिना पश्यन्ति ।।४६।। सामान्येन नारकावधिः चार्यलघुवृत्तिः कथितः । रत्नप्रभादिविशेषेणाह - आ. नि. चत्तारि गाउयाई अद्भुट्ठाई तिगाउयं चेव । अड्डाइजा दुनि य दिवड्डमेगं च नरएसु ।।४७।। मङ्गलम् रत्नप्रभायां उत्कृष्टमवधिक्षेत्रं चत्वारि गव्यूतानि जघन्यमर्धचतुर्थानि । शर्कराप्रभायां उत्कृष्टमर्धचतुर्थानि जघन्यं त्रीणि गव्यूतानि, अवधिज्ञानम् । * वालुकाप्रभायां त्रीणि गव्यूतानि तान्युत्कृष्टं सार्द्धगव्यूतद्वयं जघन्यम् । पङ्कप्रभायां सार्द्धगव्यूतद्वयमुत्कृष्टं द्वे गव्यूते जघन्यम् । धूमप्रभायां द्वे गाथा गव्यूते उत्कृष्टं सार्धं गव्यूतं जघन्यम् । तमःप्रभायां सार्धं गव्यूतमुत्कृष्टं जघन्यं गव्यूतम् । तमस्तमःप्रभायामुत्कृष्टं गव्यूतं जघन्यं * ४६-४७ *चार्धगव्यूतमिति । आह - प्राग् जघन्यो नारकावधिर्गव्यूतमुक्तः इहत्वर्धगव्यूतमिति विरुध्यते । उच्यते, गव्यूतचतुष्ट यादीनामुत्कृष्टानामवधीनां मध्ये गव्यूतं जघन्यं लघुतरमिति ज्ञेयम्, न पुनरितो हीनमर्धगव्यूतं न स्यादित्यदोषः ।।४७।। देवानामवधिं । गाथात्रयेणाह - २७ १. तिगाउया - प .।।४६।। गाथायामुक्तम् ।
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy