SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ आवश्यक- श्रीतिलकाचार्यलघुवृत्तिः २६ क्षेत्रकालमानमुक्तम्, इहत्वतिप्राज्यं तत्कथम् ? उच्यते - तत्राल्पतरं द्रव्यं दृश्यम्, अतः क्षेत्रकालावपि तथा, अत्र तु प्रचुराणि द्रव्याणि * अङ्गीकृत्य क्षेत्रकालबाहुल्यमिति न दोषः ।।४२-४३।। उत्कृष्टावध्यालम्बनमाह - * एगपएसोगाढं परमोही लहइ कम्मगसरीरं । लहइ य अगुरुयलहुयं तेयसरीरे भवपुहुत्तं ।।४४।। * एकप्रदेशावगाढं परमाणुव्यणुकादिकं परमावधिः परमावधिज्ञानी लभते । कार्मणशरीरं यावत् लभते चागुरुलघुकं 'च' शब्दात् गुरुलघु * आ. नि. *च । जात्या एकवचनम् । ततश्च सर्वाणि सर्वप्रदेशावगाढानि पश्यतीत्युक्तं भवति । तैजसशरीरविषये चावधौ, कालतो भवपृथक्त्वं मङ्गलम् *पश्यति । प्राक् तैजसं पश्यतोऽसङ्खयेयः काल उक्तः, स एव भवपृथक्त्वेन विशेष्यते । ॥४४।। परमावधेः क्षेत्रकालावधिकृत्याह - अवधिज्ञानम् । परमोहि असंखिजा लोगमित्ता समा असंखिज्जा । रूवगयं लहइ सव्वं खित्तोवमियं अगणिजीवा ।।४५।। गाथा ४४-४५ * परमावधिज्ञानी क्षेत्रतोऽसङ्खयेयानि लोकमात्राणि खण्डानि अलोके लभते, कालतस्तु 'समा' उत्सर्पिण्यवसर्पिणी असङ्खयेयाः । द्रव्यतो रूपगतं मूर्त्तद्रव्यं सर्वं लभते । 'खित्तोवमियं अगणिजीवा', आर्षत्वात् अग्निजीवक्षेत्रोपमितं प्राग्व्याख्याताग्निजीवक्षेत्रप्रमाणमित्यर्थः *॥४५।। तिरश्चोऽधिकृत्यावधिमाह - २६ *. गाथा ३२ - टीकायामुक्तम् । * गाथा ३१ - टीकायां व्याख्यातम् । *******
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy