________________
आवश्यक- माया य रुहसोमा पिया य नामेण सोमदेवुत्ति । भाया य फग्गुरक्खिय तोसलिपुत्तो य आयरिया ।।७७५।। नियुक्तिः
निजमण भद्दगुत्ते वीसुं पढणं च तस्स पुव्वगयं । पव्वाविओ य भाया रक्खियखमणेहिं जणओ य ।।७७६।। श्रीतिलकाचार्यलघुवृत्तिः
आस्ते पुरं दशपुरं सारं दशदिशामिव । सोमदेवो द्विजस्तत्र रुद्रसोमा च तत्प्रिया ।१। ३८५
तस्याऽऽर्यरक्षितः सूनुरनुजः फल्गुरक्षितः । आस्तां तावद्रक्षितार्यो वक्ष्ये दशपुरोद्गमम् ।२। अस्त्यकम्पापुरी चम्पा तत्राऽऽसीत् स्वर्णकारकः । कुमारनन्दिः स्त्रीलोलः श्रीमान् श्रीद इवाऽपरः ।। दर्श दर्श सुरूपां स्त्री पञ्चस्वर्णशतां हतेः । उद्वहल्लम्पटः सोऽभूद्योषित्पञ्चशतीपतिः ।४। अतीालुस्तत: सौधमेकस्तम्भं विधाप्य सः । विललास समन्ताभिर्देवीभिरिव देवराट् ।५। अथाऽन्यदा पञ्चशैलद्वीपगं व्यन्तरीयुगम् । गच्छन्नन्दीश्वरद्वीपयात्रायां वृत्रहाऽऽज्ञया ।६। विद्युन्माली च तत्कान्तः प्रच्युतः पञ्चशैलराट् । ततो विरहदुःखात शून्यं पश्यदितस्ततः ।७। कुमारनन्दिं चम्पायां दृष्ट्वोद्याने व्यचिन्तयत् । एषोऽस्मद्वल्लभो भावी तत्तस्य स्वमदर्शयत् ।८।
के युवामिति तेनोक्ते ताभ्यां देव्यावितीरितम् । ऊचे च युवन्नाऽऽगच्छेः पञ्चशैलमथो गते ।। *. हतिः व्ययः, तस्मात् । * वृत्रहा - इन्द्रः । + अथो = अथार्थोऽव्ययः ।
課举举举業藥藥華藥華藥業準準準準準準準準準準準準準準準:
आ. नि. सामायिकनियुक्तिः नयसमवतार
द्वारे अनुयोगपार्थक्ये आर्यरक्षितः।
गाथा७७५-७७६ ३८५
*****