SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ३८० आ. नि. सामायिकनियुक्तिः नयसमवतार द्वारे वज्रस्वाम्यथ संयुक्त: साधूनां पञ्चभिः शतैः । सर्वतः प्रसरत्कीर्तिर्व्यहरबोधयन् जनम् ।१०२। इतश्च पाटलीपुत्रे श्रेष्ठः श्रेष्ठी धनी धनः । तत्पुत्री रुक्मिणी नानी रूपापास्तपुलोमजा ।१०३। साध्व्यस्तद्यानशालास्थाश्चक्रुर्वज्रगुणस्तुतिम् । वज्रमेव पतीयन्ती श्रुत्वा तां रुक्मिणी स्थिता ।१०४ । आगच्छतोऽप्यनेकान् सा वरकान् प्रत्यषेधयत् । साध्व्योऽभ्यधुन हि भद्रे ! व्रती परिणयत्यसौ ।१०५। साऽवदन्मां न वर्षि: परिणेष्यति चेत्ततः । प्रव्रजिष्याम्यहमपि स्त्रियो हि पतिवम॑गाः ।१०६ । विहरन् पाटलीपुत्रं वज्रोऽप्यन्येधुरागमत् । निर्ययौ संमुखस्तस्य नगरेशः सनागरः ।१०७। दृष्ट्वा यातो वृन्दवृन्दैदिव्यरूपान् बहून् मुनीन् । राजोचे सैष वज्रस्तेऽभ्यधुस्तस्यैष शिष्यकः ।१०८। मा भूत्पीरीजनक्षोभ इति वज्रगुरुस्तदा । कृत्वा वपुः परावृत्तिमागच्छन्नस्ति शस्तधीः ।१०९। पश्चिमस्पर्द्धके दृष्टो वज्रः स्वल्पपरिच्छदः । सानन्दं वन्दितो राज्ञा तस्थावुद्यानवेश्मनि ।११०। धर्ममाख्यत्प्रभुः क्षीराश्रवलब्धिजिनोदितम् । तेनाऽऽक्षिप्तमनाः मात्राऽविदत्क्षुत्तृषे तदा ।१११। अन्तःपुरे तदाऽऽचख्यौ वन्दितुं तं तदप्यगात् । श्रुत्वा श्रेष्ठीसुता लोकात् रुक्मिणी जनकं जगौ ।११२। *१. 'स्तस्येक' ख छ प. प. प. । २. 'पाश्चिम' प, ..[तदः सेः स्वरे पादार्था] १/३/४५ इत्यनेन सन्धिः । आर्यवज्रस्वामी। गाथा-७६७ ३८०
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy