________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
RRRRRRRH
३७९
*
यत्स्वस्याऽऽसीद्गुरुः सर्वं श्रुतं वज्रस्य तद्ददौ । विहरन्नन्यदाऽयासीत्पुरं दशपुराह्वयम् ।९४ । वृद्धावासे सन्त्यवन्त्यां श्रीभद्रगुप्तसूरयः । तेभ्योऽन्यं श्रुतमाऽऽदातुं वज्रं प्रैषि द्विसाधुयुक् ।९५। तदा भद्रगुप्ताचार्याः स्वप्नेऽपश्यन् यथा मम । पतद्ग्रहं क्षीरभृतं पीत्वाऽऽगन्तुः समाश्वसीत् ।९६ । साधूनां प्रातराचख्युस्तेऽन्योन्यं फलमूचिरे । गुरुरूचे प्रतीच्छो मे लास्यत्येत्याऽखिलं श्रुतम् ।९७ । वज्रोऽप्यस्थाद् बहिर्नक्तमदायात एव हि । ज्ञात्वोदेशाद् गुरुवज्रं महात्मेत्यवगूढवान् ।९८ । तेषां पार्वेऽथ वर्षिर्दशपूर्वीमधीतवान् । यत्रोद्देशस्तत्रानुज्ञेत्याऽऽगाद्दशपुरेऽनु सः ।१९। तत्रानुयोगाऽनुज्ञायां वयस्यैस्तस्य जृम्भकैः । इन्द्राद्यैर्गातमादीनामिव चक्रे महान् महः ।१००। ।।७६६।। । अमुमेवार्थं ग्रन्थकृदाह - जस्स अणुनाए वायगत्तणे दसपुरंमि नयरंमि । देवेहिं कया महिमा पयाणुसारिं नमसामि ।।७६७।। यस्यानुज्ञाते वाचकत्वे आचार्यत्वे । शेषं स्पष्टम् ।।७६७।।
अथान्यदा सिंहगिरिदत्वा वज्रमुनेर्गणम् । विधायाऽनशनं धीमान् ययौ स्वर्ग समाधिना ।१०१। 2. आगन्तुः अतिथिः ।
आ.नि. सामायिक
नियुक्तिः * नयसमवतार
द्वारे आर्यवज्रस्वामी। गाथा-७६७
*****
३७९