SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ३७८ अथ न्यस्य स मण्डल्यामध्येतृयतिवेष्टिका: । मध्ये स्थितः स्वयमदात् क्रमेणाङ्गादिवाचनाम् ।८२। आयाता: सूरयो दध्युर्मुनयो द्राक्किमाययुः । स्वरमाकर्ण्य गम्भीरं ज्ञातं वज्रविजृम्भितम् ।८३। अपसृत्य क्षणं स्थित्वा व्यधुर्नषेधिकीध्वनिम् । यथास्थानेऽथ मुक्त्वा ताः प्रामाीत्स गुरोः पदो ८४। जानन्त्वमुं श्रुतधरं माऽवजानन्तु साधवः । इत्याचार्या विहारार्थं चलिताः पञ्चषान् दिनान् ।८५ । योगिनः स्माहुरस्माकं भावी को वाचनागुरुः । गुरवो वज्रमाऽऽदिक्षस्ते तथेति प्रपेदिरे ।८६ । साधवो गुरुवद्वज्रमासयित्वाऽऽसने प्रगे । योगानुष्ठानमाधाय वाचनार्थमुपाविशन् ।८७। वाचनां स तथाऽदत्त मन्दा अप्यपठन् यथा। अधीतमपि तैः स्पष्टीकर्तुं पृष्टं स शिष्टवान् ।८८। अथ ते साधवो दध्युर्गुरूणां बहवो दिनाः । चेल्लगन्ति तदाऽस्माकं श्रुतस्कन्धः समाप्यते ।८९। गुरोरधीयतेऽह्ना यत्तत्पौरुष्याऽपि वज्रतः । इत्येवं सर्वसाधूनां वज्रो बहुमतोऽभवत् ।१०। ज्ञापितास्ते वज्रगुणानित्याचार्याः समाययुः । अप्राक्षुर्यतिनो जज्ञे स्वाध्यायो बस्ते ऊचिरे ।९१। जज्ञे किन्त्वेष एवाऽस्तु स्वामित्रो वाचनागुरुः । गुरुरूचेऽमुनोपात्तं कर्णाघातात् श्रुतं ततः ।१२। युज्यते वाचनां दातुं नाऽस्य स्वयमतद्ग्रहे । ज्ञातुं वो वज्रमाहात्म्यं वाचनाऽदाप्यपीयती ।९३। १. 'वाचना' ल ल ख प. प. छ । आ. नि. सामायिक नियुक्तिः नयसमवतार द्वारे आर्यवज्रस्वामी। गाथा-७६६ KE ३७८ H2
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy