________________
आवश्यक
निर्युक्तिः श्रीतिलका
चार्यलघुवृत्तिः ३७६
************
प्राक् राज्ञोक्ताऽऽह्वयन्माता खाद्यखेलनचाटुभिः । वीक्ष्याप्यम्बां परं सोऽस्थात् नाऽचालीत्किन्त्वचिन्तयत् ॥ ६५ ॥ पालनस्थोऽप्युपश्रुत्य योऽधीतैकादशाङ्गकः । सोऽहं मोहं जनन्याः किं यामि सङ्घ विलङ्घय तत् ॥ ६६ ॥ व्रतस्थे मयि मातापि व्रतमङ्गीकरिष्यति । राज्ञाऽथोक्तः पिताऽवोचद्वचस्तं प्रति तद्यथा ॥६७॥
इ सि यज्झवसाओ धम्मज्झयमूसियं इमं वयर !। गिन्ह लहुं रयहरणं कम्मरयपम्मज्जणं धीर ! ६८ । तच्छ्रुत्वा तत्क्षणादेत्य स रजोहृतिमाऽऽददे । तदैवाऽदीक्षि गुरुणा सपौरोऽप्यबुधनृपः । ६९ । दध्यावथ सुनन्दापि भ्राता भर्ता सुतश्च मे । प्राव्रजन् किं ममान्येन साऽपि प्रव्रजिता ततः ॥७०॥ वज्रं तत्रैव संस्थाप्य साधुभिः पञ्चषैर्वृतम् । व्यहार्षुर्गुरवोऽन्यत्र यत्रैकत्र यतिस्थितिः । ७१ । अथाऽष्टवर्षो वज्रर्षिर्व्यहरगुरुभिः समम् । जग्मुश्च गुरवोऽवन्त्यां वृष्टिश्च प्रावृतत्तदा ॥७२॥ तस्य प्राग्भवमित्राणि व्रजन्तो जृम्भकामराः । दृष्ट्वा तं तत्र ते सार्थं कृत्वा तस्थुः परीक्षितुम् ॥७३ । राद्ध्वा न्यमन्त्रयन् वज्रं विप्रुषो वीक्ष्य संस्थितः । पुनराह्वन् स्थिते वर्षे गतस्तत्रोपयुक्तवान् ॥७४॥ द्रव्यतः पक्ककूष्माण्डं क्षेत्रतस्तूज्ञ्जयन्यसौ । कालतः प्रथमं वर्षा भावतो दायकाः पुनः ॥ ७५ ॥
१. प्रतिपद्यथा ल ।
*************3
*********
आ. नि.
सामायिकनिर्युक्तिः
नयसमवतार
द्वारे आर्यवज्र स्वामी ।
गाथा - ७६४
३७६