SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ * * * * * आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ३७४ * * ** उद्दिश्य गौतमं लोकप्रतिबोधकृते तथा । आदिशद् द्रुमपत्रीयाध्ययनं भगवांस्तदा ।४२। इतश्चावन्तिदेशोर्वीहदिहारलतोपमः । सनिवेशस्तुम्बवननामा धामाऽद्भुतश्रियाम् ।४३। तत्रेभ्यस्तु धनगिरितार्थी पितरौ पुनः । तत्कृते वृणुतः कन्यां यस्य तं स न्यषेधयत् ।४४। स्वयंवराऽथ तस्याऽभूत्सुनन्दा धनपालसूः । विवाहिताऽथ सा तेन तया रुद्धश्च स व्रतात् ।४५। अथाऽन्यदा स्वतः स्थानात् स च्युत्वा जृम्भकामरः । सुनन्दाकुक्षिकासारेऽवातरत्कलहंसवत् ।४६। तवाऽऽधारोऽङ्गजो भावीत्युक्त्वा धनगिरिः प्रियाम् । अभूत्सिंहगिरेः शिष्यः श्यालकात् समितादनु ।४७। जाते च तनये जन्मोत्सवे स्फूर्जति काऽप्यवक् । पिता चेत् प्राव्रजिष्यन्नास्याऽभविष्यद्वरं तदा ।४८। स संज्ञी तद्वचः श्रुत्वाऽज्ञासीन्मे व्रत्यभूत्पिता । एवं चिन्तयतस्तस्य जाता जातिस्मृतिः शिशोः ।४९। अहर्निशं ततोऽरोदीन्माता निर्विद्यते यथा । प्रव्रजामि सुखं पश्चादेवं षण्मासिकाऽगमत् ।५०। अन्यदा समवासार्षीत्तत्र सिंहगिरिर्गुरुः । समितो धनगिरिश्च पश्यावः स्वजनानिति ॥५१॥ यावद्यातो गुरुं पृष्ट्वा शकुनस्तावदूचिवान् । ततस्तौ सूरयोऽवोचन् भावी लाभोऽद्य वां महान् ।५२। 藥華藥準準準準準準準準準準 आ. नि. सामायिकनियुक्तिः नयसमवतार द्वारे आर्यवज्रस्वामी। गाथा-७६४ ३७४ ****** *. आर्यसमितः श्यालकः सिंहगिरेः पूर्वप्रव्रजितः शिष्यः ।
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy