________________
आवश्यक
निर्युक्तिः
श्रीतिलका
चार्यलघुवृत्तिः ३७३
****
*************
इष्टाप्तिश्चेत्तदस्त्वद्य पायसं घृतखण्डयुक् । तदैवानीय तत्स्वामी तानूचे भोक्तुमास्यताम् ॥३१ । दस्ते नो भविष्यन्ति नेयता तिलकान्यपि । परं गुरुवचः कार्यं न विचार्यं नृपोक्तवत् ॥३२॥ आसीनास्तेऽथ सर्वेऽपि स्वाम्यक्षीणमहानसः । आतृप्ति भोजयित्वा तानश्नाति स्म स्वयं ततः । ३३ | शतानां तेषु पञ्चानां भुञ्जानानां त्र्यहाशिनाम् । ध्यायतां गौतमीं लब्धिं जज्ञे केवलमुज्ज्वलम् ॥ ३४ ॥ गच्छतां च प्रभूपान्ते विलोक्य प्राभवीं श्रियम् । पञ्चशत्या द्वयहभुजां समजायत केवलम् ॥ ३५ ॥ एकान्तरभुजां चासीत् श्रीवीरजिनदर्शने । गौतमस्तैः समं भर्तुर्ददौ तिस्रः प्रदक्षिणाः । ३६ । नवीना साधवस्तेऽथा जग्मुः केवलिपर्षदम् । गौतमः स्माहतानेतं नमत त्रिजगत्पतिम् ॥३७ । स्वाम्याहाऽऽशातनां मेन्द्रभूते ! केवलिनां व्यधाः । नत्वा प्रभुं ददौ मिथ्यादुःकृ[ष्कृ]तं तेषु गौतमः ।३८। गौतमेऽथाऽधृतिं सुष्ठु प्रपन्ने स्वाम्यवोचत । अन्ते तुल्या भविष्यामो माऽकार्षीर्गोतमाऽधृतिम् ॥ ३९ ॥ तृणद्विदलचर्मोर्णाकटवत्कस्यचित्पुनः । कोऽपि क्वापि 'भवेत् स्नेहो मय्यूर्णाकटवत्तु ते ॥४०॥ तत्र स्त्रे चिरभवे प्रावृषीव व्यपेयुषि । केवलज्ञानहंसस्ते हृत्सरस्यां स रंस्यते ॥ ४१ ॥
१. 'तानेत' छ ल प 'तानेतुं' प । २. 'भवे' ल छ ।
******
आ. नि.
सामायिक
निर्युक्तिः
नयसमवतार
द्वारे आर्यवज्रस्वामी ।
गाथा ७६४
३७३