________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः
३७२
**********
****************
तपःकृशा अपि वयं न शक्नुम इतः परम् । गौतमस्तावदर्कांशुनिश्रां कृत्वाऽऽरुरोह तम् ॥२०॥ तद्वृत्तविस्मितास्तेऽथ दध्युर्यद्येवमेष्यति । ततोऽमुष्य वयं शिष्या भविष्यामो महाऋषेः । २१ । त्वाऽर्हतः प्रभुश्चैश्यां दिश्यशोकतरोस्तले । तत्र पृथ्वीशिलापट्टे तामवात्सीद्विभावरीम् ॥ २२ ॥ आगादष्टापदं नन्तुं तत्र वैश्रवणस्तदा । जृम्भकेण समं सख्या नत्वा सर्वान् जिनानथ ॥ २३ ॥ स्वाध्यायध्वनिना ज्ञात्वाभ्येत्य गौतममानमत् । 'कुर्वाणः स्वाम्यपि व्याख्यां सुधामधुरगीर्व्यधात् ॥ २४ ॥ अन्ताहारापन्ताहारेत्यादिकं साधुवर्णनम् । तच्छ्रुत्वा मुखमालोक्य मिथस्तौ हसितौ सुरौ ॥ २५ ॥ एवं साधुगुणानाह स्वयमीदृक् पुनः प्रभुः । ज्ञात्वाऽऽर्यस्तन्मनः पुण्डरीकाध्ययनमूचिवान् । २६ । न दौर्बल्यं बलित्वं वा सद्गत्यै किन्तु भावना । श्रीदोऽथाऽऽकूतविज्ञानात् प्रीतो नत्वा प्रतीयिवान् । २७ । जृम्भकस्तु प्रत्यबुद्धः शुद्धं सम्यक्त्वमाददे । सर्वं च प्रज्ञया पुण्डरीकाध्ययनमग्रहीत् ॥ २८ ॥ गौतमोऽथ द्वितीयेऽष्टापदाद्रेरवातरत् । भौतास्ते प्रभुमाहुर्नः शिष्यीकुरु गुरुर्भव । २९ । स्वाम्यथाऽदाद् व्रतं तेषां वेषान् शासनदेवता । पारणे वोऽस्तु किं वस्तु पृष्टास्ते प्रभुमभ्यधुः ॥ ३० ॥ कुबेरः छप । २. 'मधुरगीस्तदा' ल । ३. 'पृष्टास्तेऽथैवं' छ प ।
*************
*******
आ. नि. सामायिकनिर्युक्तिः
नयसमवतारद्वारे आर्यवज्रस्वामी । गाथा - ७६४
३७२