________________
आवश्यक
निर्युक्तिः
श्रीतिलका
चार्यलघुवृत्तिः
३७०
*************
जावंति अज्जवइरा अपुहत्तं कालियाणुओगस्स । तेणारेण पुहत्तं कालियसुय दिट्ठिवाए य ।।७६३ ।। यावदार्यवैरा गुरवस्तावत्कालिकानुयोगस्याऽपृथक्त्वमासीत् । तत आरतस्तदनन्तरं कालिकश्रुते दृष्टिवादे च पृथक्त्वमभूत् ।।७६३।। के ते आर्यवैरा इति स्तवद्वारेण तदुत्पत्तिमाह -
तुंबवणसंनिवेसाओ निग्गयं पिउसगासमल्लीणं । छम्मासिअं छसु जयं माऊइसमत्रियं वंदे ।।७६४ ।। स्पष्टा । कथा चेयं -
शक्रस्य लोकपः श्रीदस्तस्य सामानिकः पुनः । अभूद्वज्रविभोर्जीवः प्राग्भवे जृम्भकारः ॥ १ । इतश्च पृष्ठचम्पायां श्रीवीरः समवासरत् । सुभूमिभाग उद्याने शालस्तत्र नृपः पुरि ॥२॥
युवराजो महाशालस्तयोर्यामिर्यशोमती । पिठरो रमणस्तस्या गागलिस्तनयः पुनः | ३ | शालः श्रुत्वा प्रभोर्धर्मं व्रतायाऽनुजमूचिवान् । राज्ये त्वं विश सोऽवादीन्न व्रतेऽप्यस्मि तेऽनुगः ॥४। समानीयाऽथ काम्पिल्याद्गागलिं स्वस्वसुः सुतम् । राज्येऽभिषिच्य तं तौ द्वौ पार्श्वे प्राव्रजतां प्रभोः ॥५॥ साऽपि तद्भगिनी जाता श्रमणोपासिका ततः । तावप्येकादशाङ्गान्यध्यगीषातां महाऋषी ।६ । विहरन्नन्यदा स्वामी ययौ राजगृहे पुरे । ततोऽपि चम्पानगरीं प्रति प्रातिष्ठत प्रभुः ॥७॥
आ. नि.
सामायिक
निर्युक्तिः
नयसमवतार
द्वारे आर्यवज्र
स्वामी ।
गाथा
७६३-७६४
३७०