________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः
३६८
****************************
पझुप्पन्नग्गाही उज्जुसुओ नयविही मुणेयव्वो । इच्छइ विसेसियतरं पचप्पन्नं नओ सहो ।।७५७ ।। 'प्रत्युत्पन्नं' वर्तमानं अतीतानागतवक्रपरित्यागात् वस्त्वखिलं ऋजु 'सूत्रयति' गमयतीति ऋजुसूत्रः अतीतमनागतं च वस्तु न मन्यते विनष्टानुत्पन्नत्वात् । इच्छति शब्दनयः प्रत्युत्पन्नमपि विशेषिततरं समानलिङ्गवचनपर्यायं वस्तु, इन्द्रः शक्रः पुरन्दर इत्यादि ।।७५७।। * वत्थूओ संकमणं होइ अवत्थू नए समभिरूढे । वंजणअत्थतदुभयं एवंभूओ विसेसेइ । ७५८ ।।
समभिरूढे नये वस्तुनो घटादेरन्यत्र कुम्भादौ सङ्क्रमणं अवस्तु भवति, असद्भवति, कोऽर्थः ? घटकुटकुम्भशब्दान् भिन्नार्थविषयानेव * मन्यते घटपटशब्दानिव, अर्थानुगाभिधानानेव पदार्थानिच्छति । व्यञ्जनमर्थं तदुभयं एवम्भूतो नयो विशेषयति । विशेषश्चाऽयम्, योषिन्मस्तकव्यवस्थितचेष्टावानेव घटो 'घट'शब्देन वाच्यो नान्यथा । कौ पृथिव्यां भातीति तत्स्थ एव कुम्भ इत्यादि । ।७५८ ।।
एषां
भेदसङ्ख्यामाह
को यसयविहो सत्त नयसया हवंति एमेव । अन्नोऽवि य आएसो पंचेव सया नयाणं तु ।।७५९।। अन्योऽपि चादेशः पञ्चैव शतानि नयानां तु, आद्यानां चतुर्णां नयानां द्विशते, शब्दादीनां त्रयाणां त्रीणि शतानि । एवं पञ्चशतानि ।।७५९।।
****
आ. नि.
सामायिक
निर्युक्तिः नयद्वारम् ।
गाथा - ७५७
७५९
३६८