________________
आवश्यक
निर्युक्तिः श्रीतिलका
चार्यलघुवृत्तिः
३६२
समवाई असमवाई छव्विह कत्ता य कम्म करणं च । तत्तो य संपयाणाऽपयाण तह संनिहाणे य ।।७३८ ।। तन्तवः पटस्य समवायिकारणम्, तन्तुसंयोगोऽसमवायिकारणम्, तेषां पटकारणभूततन्तुधर्मत्वात् । एवं तावद्द्द्वैविध्यम् । अथवा षोढाकारणं कर्तृकर्मकरणसंप्रदानापादानसन्निधानानि । सन्निधीयतेऽस्मिन्निति सन्निधानमधिकरणम्, भरतनियुक्तो वर्धकिः सत्रागारं * कुतोऽप्यानीतैः काष्ठेष्टिकादिभिर्माहन श्रावकेभ्यो भोजनं दातुं मनीषितेऽयोध्यामध्यप्रदेशे करोति । एतेषामेकैकेनापि विना सत्रागारस्यानुत्पत्तेः, षण्णामपि कारणात् । उक्तं द्रव्यकारणम् ।।७३८ ।। भावकारणमाह -
दुविहं च होइ भावे अपसत्थ पसत्थगं च अपसत्थं । संसारस्सेगविहं दुविहं तिविहं च नायव्वं ।।७३९ ।। कारणमिति सर्वत्र प्रयोज्यम् ।।७३९ ।। एकविधद्विविधत्रिविधानि भावकारणान्याह - अस्संजमो य इक्को अन्नाणं अविरई य दुविहं तु । अन्नाणं मिच्छत्तं च अविरई चेव तिविहं तु । । ७४० ।। उक्तमप्रशस्तं संसारहेतुर्भावकारणम् ।।७४० ।। प्रशस्तमुच्यते
वर्धकिः कर्त्ताः सत्रागारम्-कर्म; काष्ठेष्टिकादि-करणम्ः माहनश्रावकाः सम्प्रदानम् कुतोऽप्यानीतः अपादानसूचनम् अयोध्यामध्यप्रदेश: अधिकरणम् इति षोढाकारणम् ।
-
आ. नि.
सामायिक
निर्युक्तिः कारणद्वारम् । गाथा- ७३८
७४०
३६२